अद्य प्रभृति समये सति आचार्यानहुग्रहे सति श्री-अहोबिलमठमूर्धाभिषिक्तानामाचार्यसार्वभौमानां श्रीमद्मुक्कूर्-आचार्याणां वैशिष्टयं प्रतिपाद्यते। आचार्यस्तवनं वैशिष्ट्यं च त्वनेकैः विद्वद्भिः पूर्वं चमत्काररूपेण विवृतं यदत्र प्रकाश्यते। अयमेव विषयः अपूर्वशृङ्खलारूपेण भवत्विति मे आशा। राजभिः असाध्यं श्रीरङ्गराजगोपुरनिर्माणं चक्रुः इमे।
प्रथमं तु आचार्याणां शताभिषेकमहोत्सवे आचार्याणां आदेशेन विद्वद्भिः श्रीमद्भिः वेदान्तवावदूकैः विल्लिवलनारायणाचार्यैः रचितं चित्रं पद्यमुल्लिख्यते। ०९/०८/१९७५-तमे दिने एव आचार्याणां शताभिषेकमहोत्सवः आङ्गलदिनचर्यामनुसृत्य । द्रमिडपंचाङ्गमनुसृत्य -> राक्षमसव्ँवत्सरः, दक्षिणायनं, वर्षर्तुः, सिंहमासः(ஆவணி इति द्रमिडे), तृतीयातिथिः, सोमवासरः, हस्तनक्षत्रम्)
अस्य पद्यस्य वैशिष्ट्यं दक्षिणतः क्रमेण लिखामश्चेदाङ्गलदिनाङ्कः प्राप्यः, वामतः गणनेनापि प्राप्यः इति समस्यावदस्ति। कथमिति पश्येम।
एकस्सिंहाद्रिदेवो नवतनुरुचिरःसप्तनादस्वरूपः मृत्योः पञ्चत्वकारी नवरसभरितोह्यष्टबाहुस्समिन्धे।
कुर्वन् पञ्चापि कालान् ऋषिभिरिह समःसप्तभिर्धीनवोस्मानेको वेदान्तयोगी नवनिधितुलितः पालयेदष्टधर्मा।।
छन्दः -> स्रग्धरा; लक्षणम् -> म्रभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्।
अर्थः -> सिंहाद्रिदेवः एकः एव यः मालोलः। तस्य समः देवः कोपि नास्ति। अहोबिले तस्य नवरूपाणि ज्वालाहोबिलादीनि अतः सः नवतनुरुचिरः। नृसिंहः सामवेदस्वरूपी यतोहि छान्दोगयोपनिषदि संवर्गविद्या (संवर्गविद्याविलसत्स्वरूपमिति प्रपत्तौ) वर्तते यस्य विषयः नृसिंहः। सामवेदे सप्तस्वराः विद्यन्त इति प्रथितमेवातः सप्तनादस्वरूपः मालोलः। मृत्योः यमस्य मृत्युरयं यतोहि ननु मन्त्रराजपदस्तोत्रे “मृत्युं मृत्युं नमाम्यहम्” इति वर्तते’तः मृत्योः पञ्चत्वकारी मालोलः। नवरसाः -> शृङ्गारः, वीरम्, करुणा, अद्भूतम्, हास्यम्, भयानकम्, बीभत्सम्, रौद्रः, शान्तिश्चेति। इमानि यस्मिन् विद्यन्ते तादृशः नवरसभरितः मालोलः। अष्टबाहुभिः प्रह्लादसंरक्षणायावातरत् मालोलः अतः सः अष्टबाहुः। तादृशः मालोलः शोभते (समिन्धे)। अत्र क्रमेण पश्यामश्चेत् -> एकः, नव, सप्त, पञ्च, नव, अष्ट इति सङ्ख्यां प्राप्नुम यस्य लेखनेन १९७५-०९-०८ इति आचार्याणां शताभिषेकाङ्गलदिनाङ्कः लभ्यते।नन्विदं चित्रम्? अद्यावधि प्रथमद्वितीयपादयोरर्थो दृष्टो यस्य विषयस्स्यात् साक्षान्मालोलः। साम्प्रतं वामतो गतिर्यत्र विषयः साक्षात् आचार्याः।
पाञ्चरात्रागमस्थाः कालाः (अभिगमनम् ,उपाधानम्, इज्या, स्वाधयायः, योगः) परमैकान्तिभिः पूज्यन्ते। एवमेवाचार्यैरप्यनुष्ठीयते – >”कुर्वन् पञ्चापि कालान्“। अनुष्ठानात् परं वैराग्यमावश्यकम् यत्र सप्तर्षयः एव उदाहरणमतः नः आचार्याः तैः सम’नुष्ठाने इति प्रतिपादयितुं -> “ऋषिभिरिह समःसप्तभिः”। अनुष्ठानवैराग्याभ्यां सह ज्ञानमप्यवश्यं यन्नः आचार्येषु प्रभूतं विद्यते यत् पुनः तेषां कृतीः वीक्ष्यापि च तैस्सह संभाषणेन च ज्ञायते’तः यस्य धीः नवा सः धीनवः।ईदृशी प्रभावः केवले एकस्मिन्नेव वर्तते यः “एको वेदान्तयोगी“। भूलोके नवनिधयः पद्ममहापद्मादयः प्रसिद्धाः ये जनान् सन्तोषयन्ति। एवमेव नवनिधिभ्यः अधिकं सुखदाः नः आचार्याः ये आश्रितानां कष्टमपाचक्रिरे’तः “नवनिधितुलितः” (नवनिधिसमानः)।जीवात्मस्वरूपस्य अष्टगुणाः उच्यन्ते। आचार्यशीलानां इमे अष्टगुणाः प्रकाशन्ते’तः “अष्टधर्मा“। साम्प्रतं वामतः सङ्ख्या -> पञ्च, सप्त, नव, एक, नव, अष्ट -> ५७९१-९-८ पुनः १९७५-०९-०८ एव।
तादृशाः आचार्याः अस्मान् (शिष्यान्) पालयेत् इति श्लोकः।
Just wow, right? It’s truly hard to capture this in English, but this is a chitrakāvya—a poetic marvel—where the poet and scholar, Vidwan Vedantavavadooka Sri Villivalam Narayanachar Swamy, has woven the date 1975-9-8 (the day of Mukkur Azhagiyasingar’s Śatābhiṣekam) into the very fabric of the verse.
The first two verses praise the presiding deity, Lord Malola, and cleverly reveal the date, while the last two praise the Āchārya and bring out the same date in reverse order—the poetic challenge (samasya) that was posed to Vidwan Vedantavavadooka Villivalam Sri Narayanachar Swamy.
This verse was tucked away in an old document—one that few, if any, might ever come across. So here’s my small attempt to bring this hidden gem to light and share it with more people.
To truly appreciate the brilliance of this composition—the poet’s mastery, the spiritual depth, and the greatness of Mukkur Azhagiyasingar—learn Sanskrit. And of course, this very verse was beautifully explained in Tamil by none other than our own Villivalam Azhagiyasingar.
How blessed we are to live in an era graced by such stalwarts!
वेदान्तदेशिकयतीन्द्रमहं प्रपद्ये।


Leave a comment