दीपावलिपर्वणः शुभाशयाः सर्वेभ्यः। दीपावलिनिमित्तं नः संस्कृतवाङ्मये किमपि विद्यते वेति प्रश्ने सति निश्चप्रचं भवत्येव। अद्य पुरातनपत्रिकातः किमर्थं दीपावल्यह्नि गङ्गास्नाननाम्ना तिलतैलं लेपित्वा प्रातःकाले उष्णजले अभ्यङ्गस्नानं कुर्म इत्यदर्शि यदत्र प्रतिपाद्यते –
तैले लक्ष्मीः जले गङ्गा दीपावली दिने वसेत्। अलक्ष्म्याः परिहारार्थमभ्यङ्गस्नानमाचरेत्।
अर्थः -> दीपावलिदिने जले गङ्गा, तैले साक्षात् लक्ष्मीः वसतः इति कारणेन तस्मिन् दिने निश्चप्रचमभ्यङ्गं गङ्गास्नानं कार्यमेव। न केवलं तत् अलक्ष्म्याः इत्युक्ते दारिद्रस्य नाशनायेदं कार्यमित्यस्त्यतः दिनेऽन्यस्मिन् न कुरुते चेदपि दीपावलिदिने नूनं गङ्गास्नानं भूयात्।
सामान्यतया सूर्योदयात् प्राक् तैलं लेपित्वा न स्नातव्यमिति शास्त्रं परमस्मिन् दिने’नुमन्यते एव।अपि च उषक्काले स्नानमिति हेतुना तस्मिन् समये चतुर्दशीतिथिः नूनं भवितव्यमतः एव नरकचतुर्दशीति नाम्नाचर्यते।
सामान्यतयोष्णाम्भसि न स्नातव्यमिति शास्त्रं परं दीपावलिदिने उष्णाम्णस्येव स्नेयमिति मदाचार्येणोक्तम्। भवतु नाम। अस्मिन् शुभदिने रमासखः नः सर्वान् पायादिति प्रार्थये।
शुभमेव भूयात् सर्वेभ्यः।


Leave a comment