अस्मिन् लेखे श्री-अहोबोलमठे चतुश्चत्वारिंशे स्थाने मूर्धाभिषिक्तानामाचार्यसार्वभौमानां शताभिषेकमहोत्सवे विद्वद्भिः श्रीप्रतिवादिभयङ्कर-अन्नङ्गराचार्यस्वामिभिः लिखितं चित्रपद्यमवलोकयाम।
द्रमिडपंचाङ्गमनुसृत्याचार्याणां शताभिषेकदिनम् -> राक्षमसव्ँवत्सरे, दक्षिणायने, वर्षर्तौ, सिंहमासे(ஆவணி इति द्रमिडे), तृतीयातिथौ, सोमवासरे, हस्तनक्षत्रे’भूत्)
इमे विषयाः कथञ्चित् पद्ये आनेतव्याः। तत् कथं विद्वत्कविः चकारेति निरूपितमधः –
आनन्दोत्तरवर्षदो निरवधिश्रीदक्षिणावर्षुकः वेदान्ताद्रिगकेसरी सितमनाः ज्ञाने तृतीयो हरिः।
सोमोऽसावुपरागदूरगतिको हस्तस्थमुक्तिर्महान् जीयाद् वेदवतंसदेशिकसमाख्योऽबिलेशो यमी।।
आनन्दोत्तरवर्षदो -> आचार्याः उत्तमम् आनन्दवर्षं सर्वेभ्यो ददाति काञ्चीपुरमागत्य शताभिषेकमहोत्सवायेति अर्थः। “आनन्दस्युत्तमां वृष्टिं दत्तवान्” इति प्रतिवादिस्वामिव्याख्या। परमानन्दोत्तरवर्षः = राक्षसवर्षः इत्यपि सिध्यति यतोहि राक्षसवर्षात् पूर्वमानन्दवर्षः। उत्तरम्, उत्तममिति पर्यायपदम्।
निरवधिश्रीदक्षिणावर्षुकः -> अपरिमितं धनं दक्षिणारुपेण ददुः/ववृषुः। अत्र दक्षिणायनमपि च वर्षतुः च सूचितम्।
वेदान्ताद्रिगकेसरी -> इमे आचार्याः साक्षात् सिंहाः। सिंहः पर्वतेषु सञ्चरति। इमे आचार्यसिंहाः अपि वेदान्तपर्वतेषु सञ्चरन्ति। अनेन सिंहमासः सूचितः।
सितमनाः -> शुद्धमनसः आचार्याः। अनेन सितपदेन शुक्लपक्षः सूचितः।
ज्ञाने तृतीयो हरिः -> हरेः अवतारेषु तृतीयावतारः वराहावतारः यः ज्ञानमूर्तिः इति ख्यातः। एवमेव आचार्याः अपि ज्ञानवन्तः। पूर्वाश्रमे किञ्चित्कालं आचार्याः श्रीमुष्णे ज्ञानसम्पादनाय अवसन्निति ज्ञेयम्। अनेन तृतीयातिथिः सूचिता।
सोमोऽसावुपरागदूरगतिको -> इदं तु स्वामिना यतिराजसप्ततिपद्यमनुसृत्य लिखितम् – अनपायविष्णुपदसंश्रयं भजे…..यतिराजचन्द्रमुराजदूरगम।। उपरागः इत्युक्ते ग्रहणमपि च विषयानुरागः इत्यर्थद्वयम्। आचार्याः विलक्षणचन्द्रः इति तेषां वैराग्यसम्पत्तिं सूचयति। अनेन सोमवासरः सूचितः।
हस्तस्थमुक्तिर्महान् -> आचार्याः शिष्याणां भरन्यासादिकं चक्रुः। अनेन हस्तनक्षत्रं सूचितम्।
असौ वेदवतंसदेशिकसमाख्यः अहोबिलेशः यमी जीयात् -> वेदान्तदेशिकनाम्ना प्रकाशमानाः आचार्याः सदा जीयासुः। पूर्वं स्वामिना अन्यत् किञ्चिल्लिखितं चतुर्थपादे परन्तु संसदि विद्यमानाः पण्डिताः आचार्याणामपूर्वनाम पद्ये आनेतव्यमिति मतिं प्रकटयामासुरतः परिवर्तितमिति प्रतिवादिस्वमिना लिखितम्।
For those who don’t know the language, this is another chitrakāvya-style brilliant verse where Vidwan Sri Prativadibhayangara Annagarachar Swamy has beautifully woven, based on the Tamil calendar, the details of Mukkur Azhagiyasingar’s Śatābhiṣekam into poetry! If you’d like to know the meaning in English or Tamil, write to me — I’ll be happy to share it with you.
वेदान्तदेशिकयतीन्द्रमहं प्रपद्ये।


Leave a comment