मम पुरातनपुस्तिकापठनमनुवर्तते यत्रेदं विचित्रं पद्यं वीक्षितम्। विचित्रचित्रलक्षणानि सर्वाणि नन्वत्र स्थानमावहन्ति? सामान्यतया लोके कृपणाः धनिकाः भवेयुः। किमर्थं वीराणां वा पण्डितानां वा दातृणां वा धनं नास्तीति बहुधा चर्च्यते जनैः। साम्प्रतमुत्तरं प्राप्तम्। इदं तु मम पितामह्याप्युक्तं परं तस्मिन् समये वृद्धोक्तिरिति मया चिन्तितम्।
शूरं त्यजेत वैधव्यात् दातारं लज्जया पुनः। सापत्न्याश्चैव विद्वांसं तस्मात् कृपणमाश्रये।।
शूरः सर्वदा युद्धार्थं यात्यतः तस्य पुनरागमनं तु न निश्चितं यतोहि कस्मिंश्चिद् युद्धे तस्य हानिः स्यादतः तस्य समीपं भवितुं नेच्छति सम्पदिति व्याख्यानम्। दातारमपि नेच्छति सा यतोहि ते सर्वदा सम्पदमन्येभ्यो वितरति, अस्यां नास्त्यादरो’तः अत्रापि न स्थातुमिच्छति। पण्डितानां प्रथमप्रियाभार्या तु विद्या।एवं सति सम्पदः तु द्वितीयास्थानमेवात’त्रापि नेच्छति वासम्। कृपणः एकः एव सम्पदि बहुस्निह्यति, अन्येभ्यः न ददात्यपि। अतः सम्पदपि तमेव वरयति। इदमेव रहस्यम्।
हे जनाः, धनी भवितुं कृपणतावश्यकी।Now, my grandma didn’t elaborate it this way, but the fourth pada is what she advised us with!
So after reading this… consider me financially enlightened and proudly crowned your favorite miser 😉 Here’s your Tuesday wisdom!


Leave a comment