Igniting the flame of knowledge!


Note: I’ve added a new podcast category where I share Spotify audio versions (podcastlink)of some posts!

Mukkur HH Chronicles: Chātu Verses with a Vedantic Twist

This is a chatuśloka that many Sanskrit students would have read and enjoyed. I came across the same verse in Mukkur Azhagiyasingar’s Arulmozhigal, where it’s given a profound Vedantic interpretation. Sharing it here, I can’t help but feel that it was Mukkur Azhagiyasingar himself who wove a beautiful story around this old verse

यं किञ्चित्पुरुषं वीक्ष्य विवाहार्थं वरानना। का विभक्तिः वहस्येति विहायेति वदाद्य मे।।

काचित् संस्कृतज्ञा स्त्री कञ्चित् पुरुषं स्वयंवरे प्रश्नं पप्रच्छ यतोहि सा संस्कृतज्ञमेव परिणेतुमैच्छत्। विहस्य अपि च विहाय च अनयोः विभक्तिः का इति।

कथं पृच्छसि पद्माक्षि! शृणु तत्त्वं वदाम्यहम्। वहस्येति तु षष्ठी स्यात् चतुर्थी च विहाय वै।।

हे पद्माक्षि! कीदृशं प्रश्नं पृच्छसि त्वं, भवतु नाम, उत्तरं तु वदामि। विहस्य इति पदस्य षष्ठीविभक्तिस्सयात्। विहायस्य चतुर्थी स्यात् इति पुरषोयमुत्तरमदात्।

यस्य षष्ठी चतुर्थी च विहस्य च विहाय च। अहं कथं द्वितीया स्यात् द्वितीया स्यादहं कथम्।।

इदमेव प्रायः संस्कृतच्छात्राः जानीयुः। सा स्त्री वदति वहस्य विहाय च पदे’व्यये। तदज्ञात्वा किमपि प्रलपन्तं त्वां कथं परिणयामि (द्वितीया भवेयम्) यः प्रायः कथमिति पदस्य अहमिति पदस्यापि द्वितीया इति वदेत् । सा तु निरणयद् यदयं किमपि न जानातीति।

तदा स पुरुषः एवं ब्रूते –

यद्यावयोर्विवाहः स्यात् त्वं द्वितीया यथा तथा। तव चाप्यनुसन्धाने द्वितीयाहं तवोच्यते।।

यदि आवयोः विवाःः भवति त्वं मम द्वितीया भवति एवमेव अहमपि तव द्वितीया। एवं सति त्वमहं च ननु द्वितीयेति चातुर्येणोत्तरं वदति। स्त्रियः कुतूहलः जातः। अन्यपदानां समाधानाय किं वदेदिति प्रतीक्षमाणासीत् तदा पुनः पुरुषः इदं ब्रूते –

मन्त्रत्रयं च विकथं द्वितीया स्यात् कथंचन। अष्टाक्षरं द्वयं चैव विहस्यात् नात्र संशयः।

चरमे चैव मन्त्रे तु हकारः श्रूयते किल। तस्मात् षष्ठी चतुर्थी च विहस्य च विहाय च।।

अत्रैव कथमिति पदस्य द्वितीयाविभक्तिः कथं भवतीति निरूपितः यतोहि पदमिदमव्ययम्। मन्त्रत्रयमिति अष्टाक्षरद्वयचरमश्लोकाः प्रसिद्धाः श्रीवैष्णवसम्प्रदाये। तेषु मन्त्रेषु “कथम्” इति पदं न विद्यत इति मन्त्रत्रयमपि विकथम् इत्युक्ते विगतं कथं येषां ते(कथम्-less) इति प्रादिबहुव्रीहिसमासः। एवं सति विकथमिति पदस्य द्वितीयाधुना भवितुमर्हति।

विहस्य इति पदस्य विवणार्थम् -> अष्टाक्षरे’पि च द्वये हकारः न श्रूयते नास्त्यपि अतः तौ मन्त्रौ विहौ इत्युक्ते यस्मिन् ह विगता सः विहः इति प्रादिबहुव्रीहिणा सुबन्तं प्राप्नुमः यस्य षष्ठ्यां विहस्य इति चतुर्थ्यां विहाय इति रूपं सिध्यति।

इदं श्रुत्वा सा स्त्री अयं पण्डितश्रेष्ठः इति ज्ञात्वा तमेव पर्यणयदिति व्याख्यानमासीत्।

I’m pretty sure only Mukkur Azhagiyasingar could have come up with something this clever—the hint lies right there in the mention of the mantratrayam!

One more chatu for us to enjoy!

चित्रे तु रावणं वीक्ष्य राभणोऽयं दशाननः। इत्युक्तवन्तं संप्रेक्ष्य परिहासं चकार सा।।

कश्चित् पुरुषः काञ्चित् स्त्रियं वीक्षितुमगमत् यत्र रामायणचित्राणि आसन्। तत्र रावणं वीक्ष्यायं “राभण” इत्यवोचत्। इदं निशम्य सा स्त्री तं परिहसति – “किं त्वया रावण-राभणयोः भेदोपि न ज्ञातः?” इति। सपदि तस्य पुरुषस्य मित्रमिदमुवाच-

तस्य मित्रं तु तां वीक्ष्य शृणुष्व वचनं मम। कुम्भकर्णे भकारोस्ति भकारोस्ति विभीषणे।।

हे स्त्रि! मम मित्रं तु सम्यगेवावोचत् यतोहि कुम्भकर्णनाम्नि भ वर्तते, विभीषणोपि वर्तते तर्हि ज्येष्ठे रावणे’पि भकारः स्यात् इति राभणः इति तेनोक्तमतः तस्य परिहासः न कर्तव्यः परं पतिरुपेण तमेव वरय इति सूचितवान्।

ज्येष्ठे चापि भकारः स्यात् राभणो न तु रावणः। तस्मात् हासो न कर्तव्यः पतिं वरय तं बुधम्।।

This one too is delightfully humorous and shows the kind of sharp linguistic brilliance required to craft such chātu verses. It’s yet another glimpse into the wit and wisdom that Mukkur Azhagiyasingar so effortlessly embodied. I hope you all enjoyed this as much as I did!

वेदान्तदेशिकयतीन्द्रमहं प्रपद्ये!


Discover more from arabhati's arbhatyam :)

Subscribe to get the latest posts sent to your email.



Leave a comment

Discover more from arabhati's arbhatyam :)

Subscribe now to keep reading and get access to the full archive.

Continue reading