इदं पद्यमाचार्यसार्वभौमानां सप्ततितमे महोत्सवे विद्वद्भिः उत्तमूर् वीरराघवाचार्यैः रचितम्। इदं तु शिखरिणि छन्दसि बद्धम्।
“जयत्येष श्रीमान् जनिसरणिजङ्घालजनतापरीतापच्छेदिप्रगुणरसवाग्वर्षणचणः।
चतुश्चत्वारिंशो यतिनरहरिर्वण्शठरिपुः महे सप्तत्यब्दान्वयिनि निगमान्तार्यगुरुराट्।।”
छन्दः -> शिखरिणी
अन्वयः -> एषः श्रीमान् जनिसरणिजङ्घालजनतापरीतापच्छेदिप्रगुणरसवाग्वर्षणचणः यतिनरहरिः चतुश्चत्वारिंशः वण्शठरिपुः निगमान्तार्यगुरुराट् सप्तत्यब्दान्वयिनि महे जयतु।
अर्थः -> जनि इति मार्गे जङ्घालानां (धावतां) जनतानां परीतापं छिनत्ति यः सः, प्रगुणरसेन भरितवाग्वर्षणेन चणः, यः स्वयं श्रीमान् इत्युक्तौ यस्मिन् श्रियाः आशीः वर्तते एव, यः सुन्दरसिंहरूपयतिः, यः चतुश्चत्वारिंशः आचार्यः मठस्य, यः वेदान्तदेशिकयतीन्द्रनाम्ना ख्यातः, सः अस्मिन् सप्ततिमहोत्सवे जयतु इत्यर्थः। प्रायः अर्थः सरलस्सयात् परमत्र पदस्य समासस्य प्रयोगः तु निश्चप्रचमाचश्चर्यलोके अस्मान् पातयति।
No translation can quite bottle the brilliance of Sanskrit — but here’s my humble attempt to let a little of its majesty spill through!
Hail the illustrious Yati Narahari, the forty-fourth pontiff, revered as Vedanta Desika Yati!
Radiant in wisdom, he pours forth the nectar of noble words, soothing the sorrow of souls caught in life’s winding maze, as the great Āchārya marks his seventieth year of grace.
वेदान्तदेशिकयतीन्द्रमहं प्रपद्ये।


Leave a comment