अस्मिन् लेखे आचार्याणां शताभिषेकमहोत्सवे मधुरान्तकवीरराघवचार्यस्वामिना लिखितं पद्यमालोक्यते। श्रीमालोलविद्वत्सभा तु सुप्रसिद्धा यत्र विद्वद्भिरनेकैः समागम्य विशेषशास्त्रचर्चा क्रियते। तदाधारीकृत्य पद्यमिदम् –
वेदाध्येतृषु वेदमौलिरसिकेष्वध्यापकादिष्वपि श्रीवेदान्तगुरूत्तमो मठपतिस्सन्दर्शयन् गौरवम्।
श्रीमालोलसभां मतत्रयविदां मान्यां प्रतिष्ठापयन् औदार्यादधरीकरोति विदितौ राधेयवैरोचनी।।
अन्वयः -> वेदाध्येतृषु वेदमौलिरसिकेषु अध्यापकादिषु अपि गौरवं सन्दर्शयन् श्रीवेदान्तगुरूत्तमः मठपतिः मतत्रयविदां मान्यां श्रीमालोलसभां प्रतिष्ठापयन् औदार्याद् विदितौ राधेयवैरोचनी अधरीकरोति।
अर्थः -> यः वेदाध्ययनं करोति, ये वेदान्तम् अधीयते, ये अध्यापकाः एषु गौरवं प्रकटयन् श्री-अहोबिलमठाधिपतिः श्रीवेदान्तयतीन्द्रः मतत्रयविदामित्युक्ते अद्वैतद्वैतविशिष्टाद्वैतमतज्ञानां मान्यां (आदारयुक्तां) श्रीमालोलविद्वत्सभां प्रतिष्ठापयन् स्वस्य औदार्यगुणाद् जगति प्रसिद्धौ कर्णबली जनावप्यधरीकरोतीति तात्पर्यम्।
अत्र आचार्यैः प्रचलिता मालोलविद्वत्सभा शंसिता या न केवलानां विशिष्टाद्वैतानां परं द्वैताद्वैतानामपि मान्यासीत् यस्य कारणं तु आचार्याणामध्यक्षकत्वमेवापि च नवविचित्रचिन्तनमपि। आचार्याः वदान्याः इति प्रथितमेव यदर्थमनेके उदाहरणानि सन्ति। तेषां वदान्यत्वं तु जगति दानार्थं प्रसिद्धौ राधेयवैरोचनी (कर्णश्च बलिश्च) अपि अधरीकरोति इत्युक्ते आचार्याणां पुरतः इमे किमपि न दत्तवन्तौ इव।
Such was Mukkur HH’s generosity that even Karna and Bali — paragons of giving — would seem mere learners beside him, for the Āchārya’s gifts were not of gold or land alone, but of divine anugraha that far surpassed them both
आचार्याणां गुणान् ज्ञात्वा तेषु इतोपि मे भक्तिः वर्धते।
वेदान्तदेशिकयतीन्द्रमहं प्रपद्ये।


Leave a comment