Igniting the flame of knowledge!


Note: I’ve added a new podcast category where I share Spotify audio versions (podcastlink)of some posts!

Mukkur HH Chronicles – Dancing Words!

अद्य किञ्चित् पद्यं वीक्षामहे यत्र विद्वद्भिः मधुरान्तकस्वामिभिराचार्यसार्वभौमानां स्तुतिः कृता। प्रगतभाषया रचितमिदं पद्यमर्थेनापि गभीरमतः वागर्थौ सष्ठु संपृक्तौ ;)।

इदं पद्यमवगन्तुं मम क्लेशो जातः। मद्गुरोः साहाय्येनावागामि यदत्र प्रस्तूयते।

पात्रात्मा बहुधान्यसिंह उदितो हस्ते गुरोरुत्तमः श्लोकोसौ बहुधान्य एव यदसौ भूत्वा नृसिंहो महे।

पात्रात्मा भविनां निजामजहदेवाद्योत्तमश्लोकतां वर्षत्येव शताभिषेकमिषतः स्वार्थान् सुवर्णात्मकान्।।

अन्वयः -> बहुधान्यसिंहे हस्ते उदितः गुरोः असौ उत्तमः पात्रात्मा श्लोकः एव महे नृसिंहः भूत्वा बहुधा अन्यः (अभूत्) , असौ भविनां पात्रात्मा निजाम् उत्तमश्लोकताम् अजहदेव शताभिषेकमिषतः स्वार्थान् सुवर्णात्मकान् वर्षति।

अर्थः -> आचार्याणमवतारदिन एव “रामानुजदयापात्रम्” इति श्लोकस्यापि जन्म। अयं श्लोकः एव पुनः आचार्यरूपेणावातरत् यतोहि अनयोः साम्यं वर्तत इति तानि कानीत्यप्युच्यते।

पात्रात्मा -> यस्मिन् श्लोके “पात्र” इति पदं विद्यते, असौ श्लोकः बहुधान्यसिंहवर्षे, हस्तनक्षत्रे उदितः।अयं श्लोकः एव उत्सवेस्मिन् नृसिंहः(Azhagiyasingar) भूत्वा बहुविधैः अन्यः (आचार्यः एव) अभूत्। अनयोः साम्यम् किम्? आचार्योपि देहिनां पात्रात्मा इत्युक्ते पातृ-आत्मा(रक्षकः), अयमेव श्लोकः स्वस्य उत्तमश्लोकताम् (उत्तमैः श्लोक्यते इति व्याख्याने for HH, celebrated ) अत्यक्त्वा शतोभिषेकव्याजेन सुवर्णात्मकान् स्वार्थान् -> श्लोकपक्षे तु अर्थः, आचार्यपक्षे धनमपि चार्थः वर्षति। अनेन साम्येन अयं श्लोकः एव आचार्यरूपं चकारेति कविना मतम्।

Just look at that padyaracana! The way the poet commands the language and weaves those śleṣas—it’s pure magic! Verses like this pull you straight into another realm. And of course, it’s for Mukkur HH—so could we expect anything less? The very words seem to dance only to praise him!

वेदान्तदेशिकयतीन्द्रमहं प्रपद्ये।


Discover more from arabhati's arbhatyam :)

Subscribe to get the latest posts sent to your email.



Leave a comment

Discover more from arabhati's arbhatyam :)

Subscribe now to keep reading and get access to the full archive.

Continue reading