सूत्रमाधारीकृत्य सन्धिविषये यथामति प्रतिपाद्यते। किमर्थोयं प्रयत्नः इति प्रश्ने सति मदभ्यासायापि च मद्वद् येऽध्येतुमनसः तेषामुपयोगाय भवेदिति धिया। सूत्रमाधारीकृत्याध्येतुं माहेश्वरसूत्रज्ञानमनिवार्यम्।
जश्त्वम् – यत्र जश्-वर्णाः आदेशाः भवन्ति। अवधेयम् – नाम्नैव वेदितुं शक्नुमः के वर्णाः आदेशाः इति।
जश् – वर्गतृतीयाक्षराणि – ज ब ग ड द।
सूत्रम् – झलां जशोन्ते (८।४।५३) – पदान्तस्य झलः स्थाने तस्यैव तृतीय(जश्)वर्णाः आदेशाः भवन्ति। (पदान्त is the अनुवृत्तिरत्र)
झल् – झ भ घ ढ ध ज ब ग ड द ख फ छ ठ थ च ट त क प श ष स ह (वर्गाणां प्रथम-द्वितीय-तृतीय-चतुर्थवर्णाः, शषसहाः च।)
कवर्गीयानां ग, चवर्गीयानां ज, तवर्गीयानां द, टवर्गीयानां ड, पवर्गीयानां ब, षकारस्य ड च आदेशाः भवन्ति।
उदाहरणानि – १) वाक् -> वाग्, तत् -> तद्, अनुष्टुब्, षड् । (पदान्ते विद्यमानस्य झलः जशवर्णादेशः नित्यं भवति, अग्रे वर्णाः न सन्ति चेदपि भवति।)
२) अच् + अन्तः = अजन्तः। वाक् + ईशः = वागीशः। षष् + आननः = षडाननः।
वर्गीयव्यञ्जनम् + स्वरः/मृदुव्यञ्जनम् (हश्) = वर्गस्य तृतीयाक्षरम् (ज् ब् ग् ड् द्)
सारांशः – ञमङणनान् वर्जयित्वा पदान्ते स्थितानां वर्गीयव्यञ्जनानां स्वरे मृदुव्यञ्जने च (हशि) परे तत्तद्वर्गीयतृतीयव्यञ्जनम् आदेशो भवति। षकारस्य डकारो भवति आदेशः।
अवसाने तु तत्तद्वर्गीयं तृतीयं व्यञ्जनम् (षकारस्य डकारः) आदेशो भवति।
अवधेयम् – अस्मात् सूत्रात् शकारस्य स्थाने जकार आदेशो भवति परन्तु this apparently will never happen as there is another sutra by which शकारस्य षकारादेशो भवति। एवमेव सकारस्यानेन सूत्रेण दकारो विधीयते परन्तु पदान्तसकारस्य ससजुषो रू इति सुत्रेण रुत्वं भवति, हकारस्य गकारो विधीयते परं हो ढः इति सूत्रेण जश्त्वं न भवति परन्तु ढकारः आदेशः भवति।
सूत्रम् – झलां जश् झशि – झशि परे झलः स्थाने तस्यैव तृतीय(जश्)वर्णाः आदेशाः भवन्ति। इदं सूत्रं तु केवलमपदान्ते एव।
झश् – झ भ घ ढ ध ज ब ग ड द (वर्गतृतीयाः + वर्गचतुर्थाः)
उदाहरणानि – १) बुद्धिः -> बुध् + ति (क्तिन्) -> बुध् + धिः -> बुद् + धिः (जश्त्वे कृते) = बुद्धिः।
२) लभ् + क्त्वा -> लभ् + त्वा -> लभ् + ध्वा -> लब् + ध्वा (जश्त्वे कृते) = लब्धवा।
अवधेयम् -> चवर्गीयानामनेन सूत्रेण जश्त्वं न भवति because चोः कुः takes precedence. ex – त्वच्+भ्याम् = त्वक्+ भ्याम् then त्वग्भ्याम् (अत्र जश्त्वमभूत् परन्तु कोः न तु चोः)। हकारस्यापि न सम्भवति जश्त्वम्। टवर्गीयानामपदान्ते उदाहरणानि न विद्यन्ते परन्तु निमित्ते सति जश्त्वं सम्भवेत्।Read/understand the sutra in detail to understand the examples as here the शकारसकारयोः जश्त्वं भवत्येव but I am not listing them here.
Here are some practice questions for you on jaṣṭva.
१) उत् + गमः
२) अपठत् + इति
३) यत् + यत् + आचरति
४) सुप् + विभक्तिः
५) मरुत् + वाति
६) पूर्ववदेव
७)महद्धनम्
८) जगद्रक्षकः
९) षड्विधम्
१०) धनाद्धर्मः।
Here is a link to the information about common sandhis that I prepared for quick reference -> https://arabhatee.netlify.app


Leave a comment