Igniting the flame of knowledge!


Note: I’ve added a new podcast category where I share Spotify audio versions (podcastlink)of some posts!

Grammar Diaries – जश्त्वम् (हल्सन्धिः)

सूत्रमाधारीकृत्य सन्धिविषये यथामति प्रतिपाद्यते। किमर्थोयं प्रयत्नः इति प्रश्ने सति मदभ्यासायापि च मद्वद् येऽध्येतुमनसः तेषामुपयोगाय भवेदिति धिया। सूत्रमाधारीकृत्याध्येतुं माहेश्वरसूत्रज्ञानमनिवार्यम्।

जश्त्वम् – यत्र जश्-वर्णाः आदेशाः भवन्तिअवधेयम् – नाम्नैव वेदितुं शक्नुमः के वर्णाः आदेशाः इति।

जश् – वर्गतृतीयाक्षराणि – ज ब ग ड द।

झल् – झ भ घ ढ ध ज ब ग ड द ख फ छ ठ थ च ट त क प श ष स ह (वर्गाणां प्रथम-द्वितीय-तृतीय-चतुर्थवर्णाः, शषसहाः च।)

उदाहरणानि – १) वाक् -> वाग्, तत् -> तद्, अनुष्टुब्, षड् । (पदान्ते विद्यमानस्य झलः जशवर्णादेशः नित्यं भवति, अग्रे वर्णाः न सन्ति चेदपि भवति।)

२) अच् + अन्तः = अजन्तः। वाक् + ईशः = वागीशः। षष् + आननः = षडाननः।

वर्गीयव्यञ्जनम् + स्वरः/मृदुव्यञ्जनम् (हश्) = वर्गस्य तृतीयाक्षरम् (ज् ब् ग् ड् द्)

सारांशः – ञमङणनान् वर्जयित्वा पदान्ते स्थितानां वर्गीयव्यञ्जनानां स्वरे मृदुव्यञ्जने च (हशि) परे तत्तद्वर्गीयतृतीयव्यञ्जनम् आदेशो भवति। षकारस्य डकारो भवति आदेशः।

अवसाने तु तत्तद्वर्गीयं तृतीयं व्यञ्जनम् (षकारस्य डकारः) आदेशो भवति।

झश् – झ भ घ ढ ध ज ब ग ड द (वर्गतृतीयाः + वर्गचतुर्थाः)

उदाहरणानि – १) बुद्धिः -> बुध् + ति (क्तिन्) -> बुध् + धिः -> बुद् + धिः (जश्त्वे कृते) = बुद्धिः।

२) लभ् + क्त्वा -> लभ् + त्वा -> लभ् + ध्वा -> लब् + ध्वा (जश्त्वे कृते) = लब्धवा।

Here are some practice questions for you on jaṣṭva.

१) उत् + गमः

२) अपठत् + इति

३) यत् + यत् + आचरति

४) सुप् + विभक्तिः

५) मरुत् + वाति

६) पूर्ववदेव

७)महद्धनम्

८) जगद्रक्षकः

९) षड्विधम्

१०) धनाद्धर्मः।

Here is a link to the information about common sandhis that I prepared for quick reference -> https://arabhatee.netlify.app


Discover more from arabhati's arbhatyam :)

Subscribe to get the latest posts sent to your email.



Leave a comment

Discover more from arabhati's arbhatyam :)

Subscribe now to keep reading and get access to the full archive.

Continue reading