अच्सन्धिप्रकरणे सूत्रमाधारीकृत्य वीक्षे चेत्तत्र interestingly, यण्-सन्धिरेव प्रथमो’तो यणः प्रारभामहे । (of course, it starts with संहितायाम्, which is an adhikara-sutram whose jurisdiction extends until 6.1.157 (from 6.1.72)..whoa!) इत्युक्तौ संहितायामेव सन्धिः कार्यः। संहिता -> वर्णानामत्यन्तसान्निध्यम्। सन्धिः -> संहितायां वर्णानां यो विकारो भवति।
नाम्नैव वक्तुं शक्येत यत्र यण्-वर्णाः आदेशाः अयं यण्-सन्धिः। यण्वर्णाः के?
यण् – य व र ल। इक् – इ उ ऋ ऌ।अच् – सर्वे स्वराः
सूत्रम् – इको यणचि। (६।१।७७) इकः स्थाने यण् आदेशः भवति अचि(असवर्णे) परे संहितायाम्।
पूर्वभागे इक्-वर्णाः उत्तरभागे अज्वर्णाः चेत् इकः स्थाने क्रमेण यणादेशः।
| इ ई + असवर्णस्वरः | उ ऊ + असवर्णस्वरः | ऋ ऋ + असवर्णस्वरः | ऌ + असवर्णस्वरः |
| य् (इचुयशानां तालु) | व् (ओष्ठम्) | र् (ऋटुरषाणां मूर्धा) | ल् (ऌतुलसानां दन्ताः) |
| प्रति + एकम् = प्रत्+इ+ए+कम् = प्रत् ये कम् = प्रत्येकम् | गुरु + आज्ञा = गुर्+उ+आ+ज्ञा = गुर् वा ज्ञा = गुर्वाज्ञा | पितृ + इच्छा = पित्+ऋ+इ+च्छा = पित् रि च्छा = पित्रिच्छा | ऌ + आकृतिः = ऌ + आ+ कृतिः = ला कृतिः = लाकृतिः |
| नदी + अत्र = नद्यत्र | वधू + आगमनम् = वध्वागमनम् | मातृ + अंशः = मात्रंशः |
अपवादः -१) यद्यपि असवर्णे अचि परे इति न विद्यते सूत्रे तथापि सूत्रस्यास्य बाधकत्वेन सवर्णदीर्घसन्धिर् भवति।
२) यदि द्विवचनान्तपदं विद्यते तत्र प्रगृह्यमिति सन्धिर् न भवति यथा हरी अमू -> अत्र निमित्ते सत्यपि यणादेशो न भवेत्।
Note – इकि प्रत्याहारे दीर्घवर्णा अपि गण्यन्ते like इ ई उ ऊ etc. Also, सूत्रे “इको यण् अचि” इत्यत्र यण्णचीति ङमुडागमसहितेन भवितव्यं परन्त्वत्र नाभूद्यतोहि न जाने परं सौत्रतायाः दोषो नास्तीति बुधैरुच्यते।(whatever that means😉)
That’s it! A simple sandhi—until the next one.
Here is a link to the information about common sandhis that I prepared for quick reference -> https://arabhatee.netlify.app
Time for a quick check! If you’ve understood this sandhi (and my post 😄), try these words to practice yān-sandhi. Get stuck? Holler right back!
दधि + अत्र
लिखतु + इति
स्वसृ + आज्ञा
उपरि + उपरि
दुहितृ + इच्छा
शतान्यपि
जुहोत्येव
धात्रुपदेशः
गुर्वाशीः
सवित्रूहा


Leave a comment