Igniting the flame of knowledge!


Note: I’ve added a new podcast category where I share Spotify audio versions (podcastlink)of some posts!

Villivalam HH’s Śatamāna Mahotsava: A Century of Divine Legacy (२)

१९९२-तमे संवत्सरे यदाचार्याः पञ्चचत्वारिंशमाचार्यस्थानमलङ्चक्रुः यदाचार्यरूपेण पत्रिकायां लेखितुं प्रारभन्त तदा इमे पद्यरूपेण कृतज्ञतां प्रतिपाद्यैवाग्रे सस्रुः। पद्यरूपेण विषयप्रतिपादनाय भाषाज्ञानं छन्दोज्ञानं चानिवार्यम्। तानि कानि पद्यानीति अधो दर्शितानि –

वेदान्तदेशिकाभिख्य यतिवर्याद्यशोनिधेः। प्राप्यस्थानमिदं पञ्चचत्वारिंशम् अनूपमम्।।

य इन्धेऽनघचित्तेन नारायणयतीश्वरः। श्रीनृसिंहप्रियाद्वारा सोऽनुशास्ति जगद्धितम्।।

अर्थः – यशोनिधेः वेदान्तदेशिकयतीन्द्रात् इदं पञ्चचत्वारिंशम् अनूपमं (अतुल्यम्) स्थानं प्राप्य यः नारायणयतीश्वरः अनघचित्तेन (शुद्धमनसा) प्रकाशते सः श्रीनृसिंहप्रियाख्या पत्रिकाद्वारा जगद्धिताय (जनान् सत्विषये) उपदिशति।

(Having ascended to the incomparable forty-fifth seat of the glorious lineage from Vedānta Deśika Yatīndra, the treasure of fame, the pure-hearted sage Nārāyaṇa Yatīśvara kindles the light of knowledge and, through Śrī Nṛsiṃha-priyā, guides the world toward its welfare.)

अत्र पूर्वाचार्यप्रशंसा, स्वस्य स्थानस्य महत्त्वं चात्र प्रतिपादितम्।

अद्यैवाहं धन्यजन्मा भवामि च सुजीवितः। यन्निरस्तान्यभावेन सेवे श्रीनृहरिं सदा।।

इदं पठित्वा नन्वश्रुपूर्णाभूवम्। अर्थः -> अद्य मम जन्म धन्यं जातमपि च मज्जीवनं शोभनं जातं यतोहि अन्यान् भावान् वा विचारान् वा यान् मन्मनसि आसीत् तत्सर्वं निष्कास्य (अनघमनसा) सदा मालोलं सेवे। I think I can take liberty and explain this as – गृहस्थाश्रमेऽनेके विचाराः बाधन्ते , संसारबन्धनं न मुञ्चति परं सन्न्यासाश्रमे सर्वं भगवच्चरणौ न्यस्य तस्यैव कैङ्कर्ये मग्नाः भूत्वा कैङ्कर्यलक्ष्म्याः अनुग्रहेण रमन्ते आचार्याः इति भावं स्वीकर्तुं शक्नुमः।

(This very day my life becomes blessed and truly fulfilled,
for, abandoning all other thoughts, I serve Lord Nṛhari forever.)

यतीन्द्रैः दर्शिता भावाः श्लाघ्यस्सन्ति पदे पदे। गीतायां वक्ति तत्रैकं नारायणयतीश्वरः।।

यदेदं रचितं तदा आचार्याः गीतातः वृवरीतुमैच्छदतः अस्यां पत्रिकायां प्रागेवानेके आचार्याः प्रशंसार्हभावाः प्रकटिताः प्रतिपदम्। इममेव पन्थानमनुसृत्य नारायणयतीश्वरः गीतास्थं विषयं ब्रूते।

(At every step, the meanings shown by the great yatis of Sri Ahobila Matam are truly admirable. Among them, in the Gītā, Nārāyaṇa Yatīśvara expounds one such profound insight.)

श्रीशठारिमुनेर्भावे स्थित्वा श्रीनृहरिं श्रितः। नारायणो मुनिर्वक्ति प्रभावं तस्य लेशतः।।

मालोलप्रभावं भणितुमैच्छतदः तस्मात् पूर्वं पृष्ठभूमिकेव विवृतम्। श्रीशठारिमुनेः भावे स्थित्वा इत्युक्ते तेषां वंशे जातो वा तेषां शिक्षितविषयाननुसृत्य वा एषामेव चरणौ वर्धयित्वा मालोलमेव श्रितः इत्युक्ते भरसमर्पणं कृत्वा तस्यैव मालोलस्य प्रभावं नारायणयतिः किञ्चित् ब्रूते इति। अत्र लेशतः इति पदमाचार्यविनयं दर्शयति।

Trust me, I could write a lot more—but I don’t want this turning into a whole book! I actually got goosebumps while writing this… and I hope it gives you that same goosebump moment when you read it!

(मया अस्मिन् लेखे लिख्यमाने कश्चित् सन्देशः आगतः। भवत्या पूर्वमाचार्यैः विरचितश्रीवीरराघवमङ्गलानुवादः प्रकाश्यते तत्वंशीयैरतः अनुमन्यते किमु इति। तदा तु मयैवमेवाचिन्तयित्वा अनूदितमतो भाषापि सम्यङ्नासीदतः पुनर् विलिख्यत इत्युक्त्वा झटित्येव परिवर्तितम्। तैरपि तत्प्रकाशितं यस्य कटकमत्र स्थाप्यते।पठित्वा मोदन्ताम् – https://publuu.com/flip-book/1030528/2279708

தேவு மற்றறியேன் நாராயண யதி!🙏🙏


Discover more from arabhati's arbhatyam :)

Subscribe to get the latest posts sent to your email.



Leave a comment

Discover more from arabhati's arbhatyam :)

Subscribe now to keep reading and get access to the full archive.

Continue reading