Igniting the flame of knowledge!


Note: I’ve added a new podcast category where I share Spotify audio versions (podcastlink)of some posts!

Villivalam HH’s Śatamāna Mahotsava: A Century of Divine Legacy (३)

अस्मिलँलेखे आचार्याणां सप्ततिमहोत्सवं पश्चात् स्वयं स्वस्यामृतवचोभिः लेखनात् पूर्वं रचितपद्यमवलोकयाम।आचार्यानप्यनेके तुष्टुवुः तदपि कदाचिल्लिख्यते

सप्ततेरथ चैकस्मिन् वर्षे कृतपदा वयम्। आशास्महे लोकहितं नारायणसयतीश्वराः।।पद्यस्यार्थः सरलः। आचार्याः ऊचुः “वयं त्वधुना सप्ततिवर्षात्मकाः नारायणसतीश्वराः लोकहितमेवेचछामः”। अत्र कृतपदाः इति बहिव्रीहिः कतं पदं येन सः इति।

मालोलकृपया सर्वे तं प्रपद्य महाप्रभुम्। क्षिप्तैनस्ततयो भूयः भजेरन् सुखमुत्तमम्।।

मालोलस्य कृपया सर्वे तं (मालोलं) महाप्रभुं प्रणिपत्य तेषां सर्वाः पापततीः क्षिप्त्वा पुनरपि उत्तमं सुखः भजेरन्निति। अत्र “क्षिप्तैनस्ततयः” इति क्षिप्ता एनसां ततिः यैः तैः इति बहुव्रीहिः। एनसिति सकारान्त-क्लीब-पदम्। भजेरन्निति विधिलिङ्गलकारः आज्ञारूपेणेत्येवाहं स्वीकरोमि।

इदं लिखित्वा अस्मिन् लेखे आचार्यैः “भद्रं कर्णेभिः” इति वेदवाक्यं स्वीकृत्योल्लिखिताः। इदं मन्त्रं नृसिंहमेव स्पष्टं सूचयतीति निरूप्य इदं तु श्रीसन्निधिशिष्यैः नित्यमनुसन्धेयमिति आचार्यैः एव १९९६-तमात् सवँवत्सरान्नित्यानुसन्धाने योजयामासुः आज्ञापयामासुरपि।।

आचार्याणां सप्ततितममहोत्सवस्तु तिरुपतौ विस्तरेणाचरितं यत्पश्चाद्भूयोपि समापनानन्तरमाचार्यैरिदं विवृतम् –

मालोलो वैदिकाश्च सप्तत्युत्सवकारणात्। आराधिता इति प्रीतो नारायणयतीश्वरः।।

अध्यासीनो वेङ्कटाद्रिं सेवमानश्च तत्पतिम्। आशास्ते मङ्गलं भूयः सर्वेषां सार्वकालिकम्।।

सप्ततिमहोत्सवे मालोलः वैदिकाः च सुष्ठु आराधिताः इति नारायणयतीश्वरः प्रीतमनाः सन् वेङ्कटाद्रिं तिष्ठन् तत्पतिं श्रीनिवासं सेवमानः पुनरपि सर्वेषां जनानां सर्वदा मङ्गलं भूयादिति प्रार्थये इति पद्ययोरर्थः। किमर्थमिदं लिखितमित्यग्रे द्रमिडभाषया लिखितं व्याख्यानं पठेम चेत् सुष्ठ्ववगम्यते।

தேவு மற்றறியேன் நாராயண யதி!🙏🙏


Discover more from arabhati's arbhatyam :)

Subscribe to get the latest posts sent to your email.



Leave a comment

Discover more from arabhati's arbhatyam :)

Subscribe now to keep reading and get access to the full archive.

Continue reading