Igniting the flame of knowledge!


Note: I’ve added a new podcast category where I share Spotify audio versions (podcastlink)of some posts!

महाभारतम् – कथमाप्रच्छनीयमिति


इदमपि मया पुरातनपत्रिकायामवालोकि। आप्राच्छन्नसमये कथं व्यवहरणीयमिति महाभारते विवृतमस्ति। प्रसङ्गस्तु कृष्णः प्रायः राजसूययज्ञानन्तरं द्वारकां ययौ तदा युधिष्ठिरः तं कथमापृच्छत’ति पद्यं विद्यते –

मा गा इत्यपमङ्गलं व्रज इति स्नेहेन हीनं वचः गच्छेति प्रभुता यथेच्छसि तथा कुर्वित्युदासीनता।

इत्यालोच्य बहु प्रतर्कमवदत् कृष्णं तु धर्मात्मजः स्मर्तव्या वयमादरेण भवता यावत् पुनर्दर्शनम्।।

अन्वयः -> मा गा इति अपमङ्गलम्, व्रज इति स्नेहेन वचः गच्छ इति प्रभुता यथा इच्छसि तथा कुरि इति उदासीनता इति आलोच्य बहु प्रतर्कम् अवदत् कृष्णं तु धर्मात्मजः स्मर्तव्या वयम् आदरेण भवता यावत् पुनः दर्शनम्।

अर्थः -> मा गच्छ इति अपमङ्गलं वचो वा व्रज (गच्छ) इति स्नेहेन वचो वा गच्छ इति अधिकारसहितवाक्यं वा (यथा प्रभुः वदति/आज्ञापयति), यथा इच्छसि त्वं तथा कुरु इति उदासीनवचो वा कथं वाच्यमिति बहुधा विचिन्त्य तर्कयित्वा च स धर्मात्मजः (युधिष्ठिरः) कृष्णम् अवदत् “वयम् आदरेण स्मर्तव्याः भवता यावत् पुनर् दर्शनम्” इति उवाच। अस्माज्ज्ञायते यत् ज्येष्ठेन सह सम्भाषणसमये कथं विचिन्त्य वक्तव्यमपि च तत्र अपचारः कोपि मास्तु अचिन्तितवचसेति तात्पर्यम्।

अस्मिन् वाक्ये किं तादृशप्रभावोस्तीति प्रश्ने सति तत्र व्याख्यानं वर्तते यत् “कृष्णः सर्वदा अस्मानादरभावेन स्मरेदितीच्छा प्रकटिता पुनर् दर्शनपर्यन्तम्। सपदि मेलनं भवत्वित्याशापि प्रकटिता।” अत्र चातुर्येण व्यवहृतमिति भावः।

धर्मराजः इति न सामान्यतया नाम दीयते किल। वाग्देवीत्युक्ते श्रीविद्यालक्ष्मीः सर्वदा जिह्वायां वसतु तदा वागीदृक् शुद्धं भवेदिति विद्यासमेतहयग्रीवं प्रार्थयामहे।

शुभमेव भूयात् सर्वदा।


Discover more from arabhati's arbhatyam :)

Subscribe to get the latest posts sent to your email.



Leave a comment

Discover more from arabhati's arbhatyam :)

Subscribe now to keep reading and get access to the full archive.

Continue reading