अस्मिन् लिखेऽपि आचार्याणं रचितानि पद्यान्येव वीक्षामहे। श्रीभाष्यकारेण विवृतं भगवत्स्वरूपमाधारीकृत्य आचार्याणां दिव्यवचांसि आसन्। तस्मात् पूर्वमुपोद्घातमिव पद्यं व्यरचि।
औज्ज्वल्यं निरतिशयं तथा सौन्दर्यमित्यपि। तथाविधं च सौगन्धं भगवद्वपुषो विदुः।।प्रमाणैस्तानि निर्ब्रूते पूर्वाचार्यप्रदर्शितैः। नारायणो यतीशानः मालोलार्चननिर्वृतः।।
अर्थः – भगवद्वुपषः निरतिशयमौज्ज्वल्यं (निरतिशय – unrivalled) सौन्दर्यं सौगन्धं च पूर्वाचार्यप्रदर्शितप्रमाणैः (श्रीभाष्यकारेण निरूपितैः प्रमाणैः) नारायणाख्ययतीश्वरः यः मालोलस्यार्चने निर्वृतः(happy and content) सः वक्तीति।
अस्मिन्नेव प्रत्रिकायां नृसिंहस्य नाम “बभसः” इति भवेद्यतोहि पदमिदं छान्दोग्योपनिषदि नृहरिं सूचयति यस्यार्थः बहुभक्षणशीलो’तः एव अद्यावधि मठे सर्वदा तदीताराधनाय त्रिषु कालेषु सुभक्तं भगवतेऽर्पयित्वा तदेव प्रसादरूपेण भक्तेभ्यः दीयत इत्यधीतं विदितं च।
संस्कृतच्छात्रेभ्यः -> निवृतः -> आच्छादनमिति
निर्वृत्तः -> साधितः इति
निर्वृत -> सन्तुष्टः/समाप्तः इति अनेके अर्थाः अतः पदं किमिति ध्यानं भवति सर्वदा।
अग्रिमे मास एवाचार्यैः भगवत्सौकुमार्यविषये प्रत्यपादि। तदेदमलिखत् –
तिरुवण-परिचाराख्ये क्षेत्रे विलसरो हरिः। वपुषीदं सौकुमार्यं कारिजो मुनिरन्वभूत्।।
किङ्गृहाधिपतौ देवे सौकुमार्यमिदं परम्। पामराणामपि स्पष्टमनुभाव्यं प्रकाशते।।
भगवत्सौकुमार्यविषये शठकोपः(Nammalwar) तिरुवण-परिचारनाम्नि क्षेत्रे विद्यमानं भगवन्तमुद्धिश्य जगौ। तदाधारीकृत्योल्लिख्यते इति। पश्चादाचार्यैरुक्तं यत् किङ्गृहेशे वीरराघवदर्शनेन पामरजनानामपि तस्य सौकुमार्यं स्पष्टं दृश्यते। अत्र किङ्गृहेशेऽस्य प्रीतिः कियती स्यादिति बहु स्पष्टम्।
आचिनोति हि शास्त्रार्थान् आचारे स्थापयत्यसौ। स्वयमाचरते यस्तु स आाचार्य इतीर्यते।। इदं पद्यं स्मृतिपथमायाति। नः आचार्यः एव अस्योदाहरणम्।
தேவு மற்றறியேன் நாராயண யதி!🙏🙏

Leave a comment