एषा कथा बृहदारण्यकोपनिषदि बहुप्रथिता । पुरा सुराः असुराः मनुष्याः च प्रजापतेः समीपं यात्वा अस्मान् किमपि उपदिश यस्मात् आत्मकल्याणं सिद्धयेत् इति प्रार्थयामास।
प्रथमं सुराः उपदेशं प्राप्तुं जग्मुः। प्रजापतिः तान् केवलं ‘द’ इति अक्षरम् अवोचत्। सुराः तु सन्तुष्टाः। अवगम्यते इति उदित्वा यातुं सन्नद्धाः सुराः। प्रजापतेः महाश्चर्यं जातम्। सः सुरान् पप्रच्छ – किं सर्वं विदितम्? तर्हि कोर्थः इति विव्रियतामिति उवाच। सुराः प्राहुः – ‘द’ इत्युक्ते “दाम्यत” इति। सुराः भोगिनः। ते महापुण्यानि कानिचन विधायैव सुरलोके विषयं प्राप्नुवन्। तेषां जीवने दमः नास्ति। मोक्षार्थम् अपि च परब्रह्मणि निष्ठायै इन्द्रियाणां दमः आवश्यकः अतः तेभ्यः “दाम्यत” इति प्रजापतिः अवादीत्।
द्वितीयं मनुष्याः जग्मुः। प्रजापतिः पुनरपि तान् केवलं ‘द’ इति अक्षरम् अवोचत्। मनुष्याः अपि सन्तुष्टाः। पुनः प्रजापतौ अर्थं पृष्टवति सति मुनुष्याः प्राहुः – ‘द’ इत्युक्ते “दत्त” इति। मनुष्याः सर्वे सर्वदा धनसम्पादने एव निरताः।प्रपौत्राणां कृते अधुनैव विना अन्यच्चिन्तनं धनसम्पादननिष्ठाः । दीनजनेभ्यः यागकर्मादीनां च दानेन लोकहितम् अपि सम्भवेत्। एतादृशा कर्मणा भगवतः प्रियतां यायुः। भगवत्कटाक्षेन सत्गतिं प्राप्नुयुः अतः तेभ्यः “दत्त” इति उत्तरं युज्यते एव।
तृतीयम् असुराः जग्मुः। प्रजापतिः पुनरपि एतान् केवलं ‘द’ इति अक्षरम् अब्रवीत्।असुराः अपि अर्थम् अवागमन्।
द इत्युक्ते “दयध्वम्”। असुराः क्रूराः। ते पक्षपातं विना सर्वान् जिहिंसुः। तादृशः निर्दयः आचारः मास्तु यतोहि अन्येषां न दयन्ते चेत् को लाभः? केचन प्रथिताः प्रह्लादादयः असुराः भगवत्प्रीतिपात्रताम् अयान्। अन्येषु जीवात्मसु दयायाः प्रकटने प्रगतिः एव भवेत्।
एवं केषां किम् आवश्यकमिति सम्यग् विदित्वा प्रजापतिना सुपथः दर्शितः उत्तररूपेण।
अधुनातनकाले मनुष्यानाम् अस्माकं द-त्रयमपि आवश्यकम्। जनानां मध्ये इन्द्रियाणां दमः , करुणा, दानम् च क्षीणं जातम्। द्वेषासूयादयः भावाः एव प्राधान्येन दृश्यन्ते।अतः वयं सर्वे जीवने द-त्रयम् आचरितुं प्रयतामहे।
एतदेव “मैत्रीं भजत” इति प्रसिद्धगीते काञ्चीपरमाचार्यैः विव्रयते – “दाम्यत दत्त दयध्वं जनताः श्रयो भूयात् सकलजनानाम्”।


Leave a comment