श्रीः


Igniting the flame of knowledge!


ययातिकथावलोकनम्‌

ययातिरित्याख्या पुस्तिका उपायनरूपेण प्राप्ता द्विवर्षात् पूर्वम्। यद्यपि पुस्तकपठनप्रियाहं तथापि पञ्चाशदधिकत्रिशतं पुटात्मकं पुस्तकं पठितुं नासीन्मनः। अकस्मात् यदा गृहग्रन्थालयः वीक्षितः तदा पुस्तिका इयं मम दृष्टिपथे आगता। पाठ्यमेवेदं पुस्तकमिति पठितुम् आरभे। दिनद्वयाद् अपचमाना अखादन्ती च अहोरात्रं प्रपठ्य पुस्तिकायाः समाप्तिः कृता। बाल्यकाले एव एतादृशं काल्पिनिक्यां कथायामुन्मत्तता प्रदर्शिता। एतत् पुस्तकमुत्कृष्टमासीत् यद् विरामं स्वीकर्तुमेव नासीन्मनः।

कथा तु ययातिमहाराजस्य परन्तु कचदेवः, देवयानिः, शर्मिष्ठा चेति सर्वेषां मुख्यानां पात्राणां विवरणानि चित्रितानि। कथा तु महाभारतादुद्धृतं परं लेखनशैली तु मह्यं बहु अरोचत। तत्र लेखकस्य काल्पनीकमपि योजितमिति स्पष्टं ज्ञायते। कथां पठित्वा कथापात्रेषु प्रीतिः द्वेषः कोपः जुगुप्सा चेति सर्वमनुभूयते यल्लेखकस्य लेखनसामर्थ्यं स्पष्टं प्रदर्शयति।

सामान्यतया अनुवादः मूलस्य इव न भवेदिति श्रुतं परन्तु यद्यपि मया मूलं न पठितं तथापि सन्दर्भेस्मिन्ननुवादः मां हर्षोन्मादे अपातयदित्येव वक्तव्यम्।

सर्वैः निश्चयेन पुस्तकमिदं पठितव्यमिति मे इच्छा।


Discover more from arabhati's arAbhatIyam :)

Subscribe to get the latest posts sent to your email.



Leave a comment

Discover more from arabhati's arAbhatIyam :)

Subscribe now to keep reading and get access to the full archive.

Continue reading