Igniting the flame of knowledge!


Note: I’ve added a new podcast category where I share Spotify audio versions (podcastlink)of some posts!

आहारमहिमा

अद्य आहारमहिमविषये यथामति उच्यते। नाम्ना प्रायशोयं लेखः किं आद्यं किमभक्ष्यं किं भक्तं शरीरभारं न्यूनीकुर्यादिति वाचकाश्चिन्तयेयुः परन्तु वस्तुतो नायं लेखश्शरीरपुष्ट्यर्थं विरचितः। गतसप्ताहे महाभारतप्रवचनं किञ्चनाश्रावि मया। तदा सरसतत्त्वं ज्ञातं यदत्र पस्तूयते।

महाभारते प्रसङ्गः – द्रौपदीवस्त्रापहरणप्रसङ्गः। अयं तु बहु खेदजः प्रसङ्गः। अमुष्मिन् राजसभायां द्रौपदी दुश्शासनेन सावज्ञमानीता। द्रौपदी किं प्राचलदिति ज्ञात्वा सर्वान् सभाज्येष्ठान् धर्मवषये स्वस्मिन् विदधदनीतिविषये च प्रलप्य स्वस्य रक्षणार्थं कोपि साहाय्यं कुरुते किमिति निरीक्षमाणाऽवर्तत। तेषे सभाजनेषु भीष्मोपि अन्यतमः। द्रौपद्यां प्रार्थितवत्यां भीष्मेण निश्चयेन अन्यायं रोद्धुमशक्ष्यत परन्तु तेन मौनमेवाचरितम्। किमर्थमिति विचारे कृते “आहारः” अत्र हेतुरिति ज्ञायते। यद्यपि भीष्मो धर्मज्ञस् तथापि सन्दर्भेऽस्मिन् स् धर्मपक्षे नासीत्। यतोहि आ बहुभ्यो वर्षेभ्यः खलेन दुर्योधनेन दत्तमन्नमेव आद्यत यस्माद् यत्र मतिस्थिरता आवश्यकी तत्र मतिनाशो जातः।

अत एव नः पूर्वजास्सर्वदा वदन्ति दुष्टात् प्राप्तं मा अद्धि। यत्र अन्नं देवेभ्यो नार्प्यते तत्र न भोक्तव्यमिति। देवसमर्पितं भोज्यं नः हिताय एव कल्पते। अन्नदाता अधर्मो यदि तर्हि तस्मात् स्वीकृतभोजनेन वयमपि अधर्मपथे तिष्ठेम।


कदाचित् सर्वं विदित्वापि अनुचितमाचर्यते चेत् अस्माभिः अभक्ष्यं भक्तमिति ज्ञेयम्। गाङ्गेयस्य भीष्मस्यैव एतादृशी गतिः चेत् सामान्यानामस्माकं को वा गतिः? वयं सामान्या आधुनिककाले कार्यनिमित्तं वा विहारनिमित्तं वा कुत्रापि भवेम, यत् प्राप्यते तत् अद्यते।अन्नदाता क इति विचारयितुमपि नास्ति समयस्सामर्थ्यं च। तदा किं कार्यमिति विचारे सति भगवद्गीतातः प्राप्यते समाधानम्। भोजनमन्त्रं सर्वदा अशनात् पूर्वमुच्यते चेत् दुर्भक्ष्यात् हानिः कापि न भवेत्।

गीतातो भोजनमन्त्रमधः उल्लिखितम् यद् प्रत्यहं भणित्वैव खाद्यम्।

ब्रह्मार्पणं ब्रह्म हविः ब्रह्माग्नौ ब्रह्मणा हुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रित: |
प्राणापानसमायुक्त: पचाम्यन्नं चतुर्विधम् ||

अत्र कश्चित् प्रश्न उदेति मनस्यस्माकम्। द्रौपद्याः कृते कृतदोषेण भीष्मेणैव किल भगवन्तमुद्दिश्य प्रसिद्धं सहस्रनाम स्तुतम्। तत् सहस्रनामैव किलाधुनावधि सर्वत्र गीयते। तत् कथमिति प्रश्ने सत्यत्र सूक्ष्मार्थो विद्यते। भीष्मः शरतल्पे शयानोऽवर्तत। तस्य वपुषो रक्तं स्रावं स्रावं शरीरं शुष्कं जातम्। अत्र तात्पर्यम् दुर्योधनादभक्ष्यं सर्वं निस्सृतं शरीरात्। तेन यः प्रभाव आसीद् दुर्भक्ष्यात् सोपि गतः। मतिरपि तीक्ष्णा निर्मला च जाता। तदैव सत्त्वगुणमयेन भीष्मेणास्तावि भगवान्।

अस्मिन् लेखे भीष्मस्योपरि ईदृशदोषारोपणमुचितं किम् ? वयं के ईदृशं भणितुं महान्तं भीष्ममुद्दिश्य इति प्रश्नः उदेति। भीष्मस्य वैशिष्ट्यं वयं सर्वे जानीमहे एव। नायं लेखो दोषदर्शनं वा दोषारोपणं वा अपि च एषापि भगवतो लीला इति स्फुटं संस्थापितुं यत्नः। मम मित्रेषु बन्धुषु चानेके “कथं सर्वं विदित्वापि भीष्मेण द्रौपद्यास्साहाय्यं न विहितम्। अयं तस्य जीवने कलङ्कः” इति बहुधा बहुत्रोच्यते। ममापि प्रशनोयं बाधते स्म परन्तु एतस्मात् प्रवचनान्न केवलं समुचितं व्याख्यानं परमितिहासपुराणेषु घटिता वृत्तान्ता अस्मान् बोधयितुमेवेति सदा स्मार्यम् (Life lessons इति आङ्गलभाषया उच्यते किल)।

अस्मात् प्रसङ्गात् कदापि दुष्टादधर्मज्ञाद् भोजनं न स्वीकार्यमपि चाशनात् पूर्वं सदा भोजनमन्त्रमुच्यतामिुत्युक्त्वा लेखोयं समाप्यते।


Discover more from arabhati's arbhatyam :)

Subscribe to get the latest posts sent to your email.



Leave a comment

Discover more from arabhati's arbhatyam :)

Subscribe now to keep reading and get access to the full archive.

Continue reading