Igniting the flame of knowledge!


Note: I’ve added a new podcast category where I share Spotify audio versions (podcastlink)of some posts!

कुलिङ्गपक्षी कः?

नूत्नाङ्गलसंवत्सरे नूत्नं किञ्चिदवलोकयामेति धियायं लेखः। गते पक्षे भ्रातृ-गृहेऽपि च श्री-अहोबिल-मठस्य अध्ययनोत्सवे च कालो यापितोतो गतसप्ताहे किमपि लेखितुं नैशि।

संस्कृतवाङ्मये नैके कविसमया वर्तन्ते। यद्वास्तविकं न तत् कविसमयत्वेन स्वीक्रियते। कानिचनोदहरणानि चातकचकोरादयः पक्षिणः। अस्मिन् लेखे कञ्चित् पक्षिविशेषं वीक्षामहे यन्नाम कुलिङ्गपक्षीति। अयं वास्तविकं वा कविसमयो वेति न जाने परं मया तु कविसमयत्वेन स्वीकृतम्।

अमुष्य पक्षिणः परिचयो दयाशतकश्लोके आसीत्। तत्राचार्यैः “घोरं कुलिङ्गशकुनेरिव चेष्टितं मे” इति सूचितम्। दयादेविमुद्दिश्याचार्याणां प्रश्नः – हे दये! अहं कुलिङ्गपक्षिवदाचरामि। किं त्वयाहं न निरुध्ये” इति।

कुलिङ्गपक्षी किं कुरुते? किमर्थमाचार्यैरसौ पक्ष्युदाहृतमिति पश्येम। कस्मिंश्चित् कानने कुलिङ्गपक्षी कञ्चन कण्ठीरवं वीक्षते। अयं द्रागेव सर्वान् सूचयति यदत्र मृगपतिस्स्यादतो मागम्यतामिति। सर्वे मृगाः सावधानाः तत्प्रदेशं न यान्ति। तदा सिंहे जृम्भमाणे पक्षी सत्वरं सिंहदन्तेभ्यस्संलग्नमांसं प्रगृह्य डयते। अयं पक्षी सर्वान् “ मा साहसं कुर्विति बोधयति परं प्रथमावसरे साहसकृतिं विदधाति। यदि तस्मिन् समये सिंहो मुखं पिदधाति तर्हि को वा गतिः पक्षिणोमुष्य?

कुलिङ्पक्षिवषये पद्यमपि विद्यते –

कुलिङ्गशकुनिर्नाम हरेर्दारितदन्तिनः।
मुखादामिषमादत्ते वदन् मा साहसं कुरु।।

अन्वयः – कुलिङ्गशकुनिः नाम “मा साहसं कुरु” (इति) वदन् दारितदन्तिनः हरेः मुखात् आमिषम् आदत्ते।

अस्माज्ज्ञायते यज्जीवने कदापि कुलिङ्गपक्षिवन्नाचरणीयम्।अस्मिन् संवत्सरे हिताहितं सुष्ठु विदित्वैवोचितो निर्णयः स्वीकार्यः इति सङ्कल्पं कुर्महे। वैकुण्ठ-एकादशी-दिने लेखमिमं प्रकाशयितुमैच्छं परं विस्मृतमतोधुना प्रकाश्यते। वयं सर्वे भगवच्चिन्तने कालं यापयेम।

शुभं भूयात्।


Discover more from arabhati's arbhatyam :)

Subscribe to get the latest posts sent to your email.



Leave a comment

Discover more from arabhati's arbhatyam :)

Subscribe now to keep reading and get access to the full archive.

Continue reading