श्रीः


Igniting the flame of knowledge!


रामपादुकायै नमः।

अयोध्यायां राममन्दिरप्रतिष्ठापनं केषुचिद्दिनेषु भवितेति निर्वृतिदा वार्ता। भारतीयास्सर्वे वयं हर्षोन्मादे स्म इति नास्ति कोपि सन्देहः। महोत्सवमिममाधारीकृत्य श्रीरामविषय एव स्याल्लेख इति निर्णीतम्। रामविषये किं लिखेयमिति विचारे कृते पादुकास्तुतिरेव वरिष्ठेति मे मतिर् यतोहि रामे वनं याते ननु पादुकया राज्यं सुष्ठु परिपालितम्‌? रामशासनात्‌ पादुकाशासनं श्रेय इति पूर्वजानामस्माकं मतिर् नु।

“पादुका” इत्युदिते सति स्वामिवेदान्तदेशिकविरचितपादुकासहस्रमेव मन्मनस्यायाति परं पादुकास्तुतिर्‌ महाकविना कालिदासेनापि रघुवंशे लिखितमिति तस्मादुद्धृतः श्लोकः विव्रियतेऽद्य। भाविनि कदाचिन्मत्प्रियतमात्‌ पादुकासहस्रात् पद्यं किञ्चिदवलोकयाम।

प्रत्यपद्यत चिराय यत्पुनश्चारु गौतमवधूः शिलामयी ।
स्वं वपुः स किल किल्बिषच्छिदां रामपादरजसामनुग्रहः ॥ ११-३४

अन्वयः – चिराय शिलामयी गौतमवधूः चारु स्वं वपुः पुनः प्रत्यपद्यत यत्‌ सः किल्बिषच्छिदां रामपादरजसाम् अनुग्रहः किल।

अन्वयार्थः – मुनेर् गौतमस्य शापादुपलशरीरं प्राप्तवती गौतमपत्नी ‘अहल्या’ बहुकालानन्तरं पुनः तस्या सुन्दरं रूपं प्रापत्। एतस्य कारणं रामपादुकात आयातो रजसां प्रसाद एव। तस्य रजसो महिम्ना शापनिवारणं प्राप्य पतिव्रतास्वग्रगण्याऽभूदहल्या। (यद्यपि श्लोके रामपादरजसामिति लिखितमत्र पादुकायाः एव निर्देशो यतोहि पादुकां विना कुत्रापि न सञ्चर्यते रामेण।)

व्याकरणांशः – किल्बिषछिदाम् – किल्बिषं छिनत्तीति किल्बिषच्छिदित्युपपदसमासः। शिलामयी – शिला+मयट् प्रत्ययः तद्धितान्तम्।

सा रामपादुका सर्वानस्मान् त्रायताम्। श्रीरामजयमित्युक्त्वा लेखोयं समाप्यते।

मकरसङ्करान्तिपर्वणः शुभाशयाः। शुभमेव भूयात्।


Discover more from arabhati's arAbhatIyam :)

Subscribe to get the latest posts sent to your email.



Leave a Reply

Discover more from arabhati's arAbhatIyam :)

Subscribe now to keep reading and get access to the full archive.

Continue reading