अयोध्यायां राममन्दिरप्रतिष्ठापनमुद्दिश्य रामविषय एव भवतु लेखनमिति धिया हनुमद्विरचितहनुमन्नाटकात् पद्यमुदाहृतम्। पद्यमिदं रामगुणकीर्तनम्।
द्विश्शरं नाभिसन्धत्ते द्विःस्थापयति नाश्रितान्।
द्विर्ददाति न चार्थिभ्यो रामो द्विर्नाभिभाषते ॥ ~ हनुमन्नाटकम्
अन्वयः – रामः द्विः शरं न अभिसन्धत्ते आश्रितान् द्विः न स्थापयति। अर्थिभ्यः द्विः न ददाति च द्विः न अभिभाषते।
अर्थः – रामः स्वीये चापे द्विवारं शरं न स्थापयति।अस्य तात्पर्यं शरं द्विवारं न लक्षीकरोतीत्युक्त एकवारं शरं विमुञ्चति चेत् शत्रुं प्रति स शत्रुः म्रियत एव। कोपि आश्रयार्थमायाति तर्हि तस्मै अभयं ददाति। अन्यः देवः कोपि तदभयं निराकृर्तुमीष्टे नैव कदापि। याचकेभ्यो द्विवारं न ददाति यतोहि प्रथमवारं यद्ददाति तदपरिमितं भवेत्। सः द्विवारं न भाषते इत्युक्ते यद् वदति तदेव कुरुते। तादृशगुणवान् रामः।
English Translation – This verse extols the virtues of Lord Rama in the following manner – Lord Rama never releases his arrow twice; his mastery in archery ensures that once his arrows are unleashed, his enemies cannot evade them. He meticulously looks after his devotees, eliminating the need for them to turn to any other deity. His benevolence in charity is so profound that recipients can live generously for more than seven generations. Furthermore, he never repeats his statements, signifying that when he utters something, he stands by it unwaveringly. This is the Rama whom we all cherish and adore!
स्वामिवेदान्तदेशिकैरस्तावि श्रीराम एवं – “शरणागतरक्षणव्रती” – शरणागतानां रक्षणे व्रतः अस्य अस्तीति, “सकृत्प्रपन्नजनसंरक्षणदीक्षित” – एकवारं प्रणिपद्यते चेत् तस्य रक्षणे दीक्षा अस्य जातेति। तादृशः रामः अस्मान् पातु।
श्रीरामभद्र! नमस्ते पुनस्ते नमः इत्युक्त्वा लेखोयं समाप्यते। श्रीरामजयमित्युच्चैः घुष्यताम्।
शुभं भूयात्।


Leave a comment