अस्तु। अद्य किमप्यस्ति लेखनार्थम्। अकस्मादत्र केरोलयनाराज्यमागतास्मि।अहं तु चञ्चलमना एव गम्यं चेति नैवेति परं न जाने मम वर्गार्थमन्यव्यवस्थापि विना क्लेशं कृता’तः भगवदाज्ञेति स्वीकृत्य प्रवासः कृतः। साम्प्रतं वसतिगृहे’स्मि। मम राज्यात् षड्घण्टात्मकदूरे विद्यमानं राज्यमिदम्। कथं वा चालितमित्यपि न जाने। प्रायो’ग्रे ईदृशं कुर्यां वेति संशयास्पदमेव। किमर्थमागतमित्यन्यस्मिन् लेखे विव्रियते। प्रयाणसमये खे पूर्णिमा मत्तः नास्ति कापि सुन्दरतमेति सन्देशं प्रकटयन्तीव शोभतेतराम्। पार्श्वे कानिचन नक्षत्राणि दृष्टानि परं नक्षत्रमुत ग्रहः इति चिन्तना यतोहि मासे’स्मिन् शनिबृहस्पत्योः दर्शनं प्राप्यत इति कुत्रचित् पठितम्। अनेन ज्ञानेन स ग्रहः इति निर्णीय पुनर्दर्शनेन ग्रहं परितः मेखलेव द्युतिं दृष्ट्वायं सौरिरेवेति निर्णीय पुनः नैव बृहस्पतिस्सयादिति विचिन्त्यान्ते‘यं शुक्रः इत्यर्धमनसा चिन्तितम्। भवतु नाम प्रयाणे खे वर्तमानानि नक्षत्राणि वीक्ष्य समयः यापितः। साम्प्रतं सम्यङ् निद्राय श्वः नूतनं किमपि लिख्यते।
अकस्मात् प्रवासः

Discover more from arabhati's arbhatyam :)
Subscribe to get the latest posts sent to your email.

Leave a comment