श्रीः


Igniting the flame of knowledge!


गीतायाः महत्त्वम्।

अद्य विरामो’तः किमपि लिखेयमिति धिया पद्यं किञ्चित् स्वीकृत्य विव्रियते। पुरातनपत्रिकायां गीतायाः महत्त्वताविषये श्लोकोयं वीक्षितः मया –

संसारसागरं घोरं यो नरस्तर्तुमिच्छति। गीतानावं समासाद्य पारं याति सुखेन सः।।

अन्वयः – यः नरः घोरं संसारसागरं तर्तुम् इच्छति। सः सुखेन गीतानावं समासाद्य पारं याति।

यः मनुष्यः तीव्रं (संसारः एव सागरः), तं सागरं तर्तुं कामयते सः मनुष्यः सुखेन (गीता एव नौः), तां नावं सम्प्राप्य पारं गच्छति इत्यर्थः। 

सामान्यतया ‘नौका‘ इति पदमेव प्रयुज्यते परमत्र ‘नौ‘ इति औकारान्तपदं यस्य विभक्तिरूपाणि भिन्नानि गौवत्।

अत एव मया गीताम् अध्येतुं निर्णीतम्। तृतीयाध्याये’स्मि साम्प्रतम्। प्रायः लिखेयममुष्याः कदाचित्।

शुभं भूयात्।


Discover more from arabhati's arAbhatIyam :)

Subscribe to get the latest posts sent to your email.



Leave a Reply

Discover more from arabhati's arAbhatIyam :)

Subscribe now to keep reading and get access to the full archive.

Continue reading