Igniting the flame of knowledge!


Note: I’ve added a new podcast category where I share Spotify audio versions (podcastlink)of some posts!

Villivalam HH’s Śatamāna Mahotsava: A Century of Divine Legacy (७)

वाचकेभ्यो नमांसि। अस्मिन् लेखे आचार्याणामशीतिमहोत्सवे विदुषां पद्यान्याचार्यविषये वीक्षामहे। इमानि पद्यानि आजिसूर्-श्रीनिवासाचार्यस्वामिना रचितानि।

श्रीमन्नाथमुनीन्द्रयामुनमुनिश्रीभाष्यकारात्मनः श्रीमद्रङ्गशठारिदेशिकमणेः प्राप्तागमान्तद्वयम्।

श्रीलक्ष्मीनृहरेः पदार्पितभरं श्रीवीररघ्वीटगुरोः दृष्ट्या भक्तियुतो यतीश्वरमहं नारायणं प्रपद्ये।। ~ शार्दूलविक्रीडितछन्दः

४२-तमाः आचार्याः श्रीनाथमुनियामुनमुनिभाष्यकारस्वरूपाः , येभ्यः नारायणयतिः उभयवेदान्ताध्ययनमकार्षीत्।४३-तमाचार्याणां दयया मालोलपादाम्बुजे भरसमर्पणमकरोत्। तादृशं भक्तियुतं नारायणयतिमहं प्रपद्ये इति पद्यार्थः।

प्रतिपदमतिगूढं योगिराजस्य भावमतिसरलवचोभिर्बोधने यस्समर्थः। तथा द्रविडभाषाशिक्षणे योऽतुलोभूत स जयतु यतिराजो भूतले श्रीशदृष्ट्या।। ~ मालिनीछन्दः

गूढार्थान श्रीभाष्यकारकृतीन् सरलसुलभरूपेण बोधयितुं यस्य सामर्थ्यं वर्तते, यस्य न केवलं देवभाषायां परं द्रमिडे’पि अतुलं ज्ञानमपि च शिक्षणसामर्थ्यं वर्तते, तादृशः यतिराजः नारायणयतीश्वरः श्रियः आशिषा जयतु (जयत्यपि)

इतोपि पद्यानि अग्रिमे लेखे उल्लिख्यते परमधुना आचार्यमङ्गलपद्यानि वीक्षामहे-

द्राविडन्यायवेदान्तद्वितयज्ञानराशये। नारायणयतीन्द्राय गुरवे मङ्गलं सदा।।

द्रमिडभाषा, न्यायशास्त्राणि अपि च अन्यशास्त्राणि उभयवेदान्तज्ञानम् – एषां ज्ञानराशिरेव आचार्यः, तस्मै गुरवे मङ्गलम्।

भक्तरक्षणसञ्चारलोलुपाय महात्मने। श्रीमते श्रीनृसिंहाय नित्यश्रीर्नित्यमङ्गलम्।।

भक्तानां रक्षणाय यः सर्वत्र सञ्चरति तस्मै गुरवे नित्यश्रीः भवतु नित्यमङ्गलमपि।

मङगलपद्यानि सर्वदानुष्टुपि भवत्यतः इमे पद्ये’पि तस्मिन् छन्दसि एव।

अनेन लेखोयं समाप्यते। தேவு மற்றறியேன் நாராயண யதி!🙏🙏


Discover more from arabhati's arbhatyam :)

Subscribe to get the latest posts sent to your email.



Leave a comment

Discover more from arabhati's arbhatyam :)

Subscribe now to keep reading and get access to the full archive.

Continue reading