श्रीः


Igniting the flame of knowledge!


तुलसीमाहात्म्यम्।

तुलसीविषये पद्यमिदमपाठि पुरातनपत्रिकायां यदत्रोल्लिख्यते। तुलसी तु भगवतः कलत्रमिति प्रसिद्धं श्रीवैष्णवसम्प्रदाये –

कुलं शीलं कलत्रं च पुत्रं दुहितरं तथा। धनं राज्यमरोगत्वं ज्ञानं विज्ञानमेव च।।

वेदवेदान्तशास्त्रं च पुराणागमसंहिताः। सर्वं करगतं सत्यं तुलस्याभ्यर्चने हरेः।।

हरेः तुलस्या अर्चने कुलं शीलं कलत्रं पुत्रं दुहितरं धनं राज्यम् अरोगत्वं ज्ञानं विज्ञानं वेदवेदान्तशास्त्रं पुराणागमसंहिताः च सर्वं करगतं भवतीत्युक्ते प्राप्नुमः।

विज्ञानरीत्या तुलसीसमीपस्थः वायुः तमकश्वासं/श्वासरोगमुपशमति। अपि च तुलसी तु भगवतः पत्नीति मन्यते’तः तस्याः समर्पणं केवलं केशवाय न तु अन्यदेवतायै इत्यपि वर्तते।

स्थानेषु दोषरहितेषु सुरौघसेव्याम् आरोपयन्ति तुलसीं हरितुष्टिकर्त्रीम। तुष्टो हरिस्त्रिजगतामधिपो मुरारिः तेभ्यो ददाति परमं पदमाशु सत्यम्।।

शुद्धस्थाने सुरगणैः सेवितां हरेः तुष्टेः कर्त्रीं तुलसीम् आरोपयन्ति (यदा) (तदा) हरिः तुष्टः सन् त्रिजगतामधिपः मुरारिः परमपदमित्युक्ते मोक्षं ददाति तेभ्यः। केभ्यः चेद् यः/या तुलसीं शुद्धस्थाने पालयतीति तात्पर्यम्।

इतोप्यनेकानि पद्यानि पुरातनपत्रिकायां वर्तते like कथं तुलसी ग्राह्या लतातः, कैः ग्रहीतुं शक्यते, कदा ग्राह्यम्, तस्मिन् समये के श्लोकाः वक्तव्याः इति नियमाः अनेके वर्तन्ते यदाचार्यमुखात् ज्ञेयम्।

शुभमेव भूयात्।


Discover more from arabhati's arAbhatIyam :)

Subscribe to get the latest posts sent to your email.



Leave a Reply

Discover more from arabhati's arAbhatIyam :)

Subscribe now to keep reading and get access to the full archive.

Continue reading