Okay makkale, I have absolutely no clue where I found this padya, but apparently past-me thought it was worth saving in my drafts. Anyway, since it’s actually quite good — and because giving random unsolicited gyaan is my core hobby — here’s the explanation!
नभोभूषा पूषा कमलवनभूषा मधुकरः वचोभूषा सत्यं वरविभवभूषा वितरणम्।
मनोभूषा मैत्री मधुसमयभूषा मनसिजः सदोभूषा सूक्तिः सकलगुणभूषा च विनयः।।
नभसः आकाशस्य आभरणं सूर्यः। पद्मवनस्य आभरणं मधुकरः। वाचः आभरणं सत्यवाक्। उत्तमविभवस्य आभरणं दानम्। हृदयस्य आभरणं मैत्रीभावः। वसन्तकालस्य आभरणं मन्मथः। सभायाः आभरणं सदुक्तिः। सकलगुणानं आभरणं तु विनयः एव।
अस्मिन् पद्ये प्रासः मह्यं बहु रोचते’तः एव वा स्यान्मयेदं रक्षितमन्यथा स्ववगममेव। अपि सन्धेरवधानं भवतु – सकारान्तानामोकारः श्रूयते -> नभस् +भूषा -> नभोभूषा; वचस्+भूषा वचो भूषा; मनस्+भूषा – मनोभूषा; सदस्+भूषा – सदोभूषा
सद्विषयाः सदा नः श्रोतृपथे भवतिु तदैव किञ्चिदाचरितुं मनो नः प्रेरयेत्।
With the help of AI, here is a poetic rendering in English –
The sun jewels the sky; the bee jewels the lotus-bed.
Truth jewels our speech; giving jewels our wealth.
Friendship jewels the mind; spring is jeweled by desire.
Good words jewel a gathering—yet humility is the jewel of every virtue.
With that signing off makkale… शुभमेव भूयात् सर्वदा।


Leave a comment