वाचकेभ्यो भूयांसि नमांसि। अस्मिन् लेखे विद्वद्भिः करुणाकराचार्यैः आचार्यविषये लिखिते पद्ये सताभिषेकमहोत्सवे अवलोकयाम।
यः श्रीनारायाणार्यं नयपथमहितं भ्रातृमन्तं करोति येन श्रीरङ्गमारो यतिपतिरनघं शिष्यवत्स्वग्रगण्यः।
यनेयं श्रीमठश्रीः बहुगुणविभवा संप्रतीन्धे समृद्धा स श्रीनारायणाख्यो यतिकुलमहिस्स्वीकरोत्यञ्जलिं मे।। ~ स्रग्धराछन्दः
अर्थः -> यस्य महापुरुषस्य भ्राता श्रीनारायणार्योस्ति, येन महापुरुषेन ४२-तमः आचार्यः शिष्यवत्सु (येषां शिष्याः वर्तन्ते तेषु गणेषु) अग्रगण्यः अभूदित्युक्ते विल्लिवलमाचार्याः उत्तमशिष्याः येन प्राचार्यस्य वैभवः प्रकाशते सर्वासु दिक्षु, येन महाचार्येण श्रीमठस्य समृद्धिश्चकीर्तिश्च बहुगुणीबभूव, सः महाचार्यः यतिकुलतिलकः मम अञ्जलिं स्वीकरोतु इति। इदं पद्यं तु स्रग्धराछन्दसि बद्धमस्ति।
द्वेधाऽऽगतो मे पुरतस्थितोऽसौ चतुष्कवीशस्य गिरस्त्वितीमाः। यो मां सदा स्मारयतीह योगी नारायणाख्यस्तमहं नमामि।।
द्रमिडे Thirumaṅgai Āḻvār, also known as Kāliyan, was famously celebrated as Nālukavi Perumal, which in Saṃskṛtam is चतुष्कविः—the master of four forms of poetry. Among his celebrated works, Thirunedunthāṇḍakam stands out as a renowned prabandham composed by Kāliyan.
His Holiness is well known for his profound upanyāsams on Thirunedunthāṇḍakam. This background is helpful in understanding the following padya. Of course, Swami has explained its meaning in detail across three publications, but here I will keep the explanation simple.
आचार्याः सर्वदा भ्रात्रा सह आगच्छेदतः द्वेधा आगतः इत्येकोर्थः। पुरा पराशरभट्टः अस्य (तिरुनेडुन्दान्डकम्) प्रबन्धस्य व्याख्यानं सुष्ठु चकार पश्चात् पराशरभट्टस्य शिष्यः यः नन्जीयरिति यतिः सुष्ठु व्याख्यानमरोत्। एवमेव ४५-तमः आचार्योपि पूर्वाश्रमे पराशरभट्टः इव आचार्यस्थानप्रापनात् परं नन्जीयरिव व्याख्यानमकरोदिति द्वेधा आगतः इति। कलियप्रबन्धव्याख्यानं मां यः नारायणाख्ययतिः बोधयति तमहं नमामीत्यर्थः। As mentioned earlier, I have only provided the gist here; the real delight lies in reading the full vyākhyānam.
तादृशः प्रभावः नः ४५-तमाचार्याणाम्। தேவு மற்றறியேன் நாராயண யதி!🙏🙏


Leave a comment