आ बहोः कालात् भोजराजविरचितचम्पूरामायणम् अधीयाना वर्ते। अमुष्मात् पठनात् भोजराजे मत्प्रीतिश्चादरो’वर्धत। अमुष्य लेखनशैली, अलङ्कारयुक्तपद्यानि, प्रासाश्च हृद्याः। साम्प्रति युद्धकाण्डे स्मो’तः पुनरालोकनमिषेण बालकाण्डपद्यानि वीक्षितानि। तत्रेदं पद्यमत्रोल्लेख्यमिति काचिच्चिन्तना मां तुदति so here is the verse –
पर्याप्तभाग्याय भवानमुष्मै कुर्यात्सपर्यां कुशिकात्मजाय।
निर्यातुधानां वसुधां विधातुं निर्यातु रामस्सह लक्ष्मणेन ।।३४।।
अन्वयः -> भवान् (दशरथः) अमुष्मै कुशिकात्मजाय पर्याप्तभागयाय सपर्यां कुर्यात्। वसुधां निर्यातुधानां विधातुं लक्ष्मणेन सह रामः निर्यातु।
प्रसङ्गः -> विश्वामित्रः दशरथसंसदमागम्य पिशिताशबाधितयज्ञसंरक्षणार्थं रामोपकारं याचते। तदा रामप्रेषणे दोलायमानचेतसं दशरथमुद्दिश्य वशिष्ठवागियम्।
अर्थः -> पर्याप्तभाग्याय, यस्य भाग्यं पर्याप्तं वर्तते सः यतोहि ब्रह्मवर्चसं प्राप्तं विश्वामित्रेण यन्न सुकरं साधारणानामतः यस्य पूर्वसुकृदस्ति तस्यैव शक्यते, अपि चात्र पर्याप्तमिति परिपूर्णमित्यर्थे, तादृशाय कुशिकस्य सुताय भवान् दशरथः सपर्यां (सेवां) कुर्यादिति। विधिलिङ् प्रयुक्तः – विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् इति सूत्रम।
किमर्थं रामेण गम्यं चेत् वसुधां (भूमिं) निर्यातुधानां (नीराक्षसं) विधातुं (कर्तुं) रामः लक्ष्मणेन सह निर्यातु (निर्गच्छतु) इति लोटः प्रयोगः।
समासः -> पर्याप्तभाग्याय -> पर्याप्तं भाग्यं यस्य सः , तस्मै् (बहुव्रीहिः)
कुशिकात्मजाय -> कुशिकस्य आत्मजः , तस्मै (षष्ठीतत्पुरुषः)
निर्यातुधानाम् -> निर्गताः यातुधानाः यस्याः सा, ताम् (बहुव्रीहिः)। अत्र यातुधाना इति राक्षसानां अपरा संज्ञा।
इदमधीत्य किमपि साधितमिव प्रतिभाति मे। यद्यपि विषयस्तु नास्ति गभीरस्तथापि कथं अमुना कविना विरचितमिति दृश्यम्। प्रासः नरिनर्ति पद्ये’स्मिन्। पदप्रयोगः उल्लसति।
अद्य किमपि उत्कृष्टं लिखितमित्यपि मम निर्वृतिः। अमुष्माल्लेखोयं समाप्यते। शुभं भूयात् सर्वेषां सर्वदा।

Leave a comment