श्रीः


Igniting the flame of knowledge!


आत्मबोधः

कस्मिंश्चिन्मेलने केनचिदात्मबोधविषये’वादि। अयं ग्रन्थो भगवत्पादविरचितः आत्मबोधनार्थम्। मया तु जातकुतूहलया कानिचन पद्यान्यमुष्मान्निरीक्षितानि। मह्यं बहु रोचते’पि। प्रायो जीवने मदीयायां स्थित्यां जातुचित् किमप्यपेक्ष्यत उत्तररूपेण यतोहि कस्मिंश्चित कार्ये मम वैफल्यमेवस्त्यधुनापि। द्रमिडे काचिदुक्तिर् वर्तते “शिरो’धः स्थापयित्वा स्थीयचे चेदपि नैव दृश्यते साफल्यम्”।

दूयमानचेतसां भेषजं ननु तत्त्वबोधः? अत एव ममाप्यस्मिन् आसक्तिरिति मन्ये। तत्र प्रथमे श्लोक एव आचार्येण प्रतिपाद्यते केषामिमे श्लोकाः ।

तपोभिः क्षीणपापानां शान्तानां वीतरागिणाम्।
मुमुक्षूणामपेक्ष्योऽयमात्मबोधो विधीयते।।1।।

तपोबलैः येषां जनानां पापानि क्षीणानि जातानि, ये शान्तचेतसा व्यवहरन्ति, येषामाशादयः गताः इत्युक्ते सन्न्यासिवज्जीवनं, ये मोक्षं इच्छन्ति, तेषां आत्मबोधाख्योयं विरच्यते इति।

अस्यां गोष्ठ्यां प्रायस्सर्वे मुमुक्षव इति कारणेन पठितुमर्हाम नो चेदद्यत्वे न कोपि क्षीणपापो वा शान्तो वा वीतरागो वा परमुत सर्वे कृताधिकपापाश्चाशान्ताश्च वर्धितरागिणशच। प्रथमे श्लोके एव नः अर्हता सुष्ठु प्रकाशते तथापि मुमुक्षत्वमित्येका हेतुः पर्याप्ता’ग्रेऽध्ययनाय।

एवमेकस्मिन् श्लोकाध्ययन एवेदृशः प्रश्ना वा विचारा उत्पद्यन्ते चेत् कथं वा उपशतपद्यानि समाप्यन्ते मयेति मे बुद्धिरधुनैव ग्लाना जाता। भवतु नाम। सर्वमत्र परमात्मनस्सङ्कल्पेनैव प्रचलत्यतस्तस्यानुग्रहेणाग्रे पठेयमिति मन्ये।

शुभं भूयात्।


Discover more from arabhati's arAbhatIyam :)

Subscribe to get the latest posts sent to your email.



Leave a comment

Discover more from arabhati's arAbhatIyam :)

Subscribe now to keep reading and get access to the full archive.

Continue reading