अद्यात्बोधात् द्वितीयपद्यं वीक्षितं मया। पठनेनैव बुद्धौ अनेके विचाराः। कथं वा सर्वं संस्कृतेन सुष्ठु प्रतिपाद्यते मयेति चिन्तयाहं बाधिता। भवतु नाम। यावच्छक्यं लिखामि। एतदर्थमन्योपायोपि वर्तते परं तस्मिन् विषये’नन्तरं वक्ष्ये।
बोधोऽन्यसाधनेभ्यो हि साक्षान्मोक्षैकसाधनम्।
पाकस्य वह्निवज्ज्ञानं विना मोक्षो न सिध्यति।।2।।
अन्वयः –
अन्यसाधनेभ्यः बोधः हि साक्षात् मोक्षैकसाधनम्। पाकस्य वह्निवत् ज्ञानं विना मोक्षः न सिध्यति।
अर्थः/विचारः –
अत्र गभीरविषय आचार्यैः प्रतिपादितम्। बोधो नाम ज्ञानम्। ज्ञानं विना किमपि साधयितुं न शक्नुमः जीवने सामान्यविषये’पि। अतः एव नः पूर्वजा अध्ययनशीलाः। सामान्यविषयसाधनार्थमीदृक् स्थितिश्चेन्मोक्षः इति बृहद्विषयः। तदर्थं निश्चप्रचं ज्ञानमावश्यकम् परमधुना प्रश्न उदेति- कीदृशं ज्ञानं प्रतिपादितमत्र? यदस्माभिः पाठशालायामधीयते तज्ज्ञानमुत वेदज्ञानमुत पुराणज्ञानमुत किमु? अत्र सर्वेषामुत्कृष्टज्ञानं परमात्मज्ञानमेव प्रतिपाद्यते इति मे मतिः यतोहि परमात्मा कश्चिज्जगदिदं सृजति, अमुष्य सङ्कल्पेनैव सर्वं प्रचलति, सः एव मूलकारणकर्ता, स्वतन्त्रः, वयं सर्वे तदधीनाः। एदज्जानमेवोच्यते। इदं ज्ञानं नास्ति चेन्मोक्षविषये नहि भवेन्नश्चिन्तनम्। अत्र औपम्येनाप्युदाह्रियते – पाकस्य वह्निवत् ज्ञानमिति। वह्निना विना पाको न भवति। प्रायः अर्वाचीनकाले “शैत्यभक्तम्” इति निर्मीयते परं तत्कर्तुमप्यग्नेः आवश्यकता स्यात्। एवमेव मोक्षसाधकं ज्ञानं स्यात्। ज्ञानेनैव आचार्याभ्यः अधीत्य वेदान् इतिहासान् पुराणानि सम्प्रदायविषयान् च अन्ते भगवान् नारायणः एव परब्रह्मेति विदित्वा तस्य पादकमले शरणागतिं कुर्याम।
मह्यं त्वयं विचारः समुचितः इति प्रतिभाति। मया तु व्याख्यानं किमपि नापठम्। ममैव स्वल्पज्ञानाद् यन्मम मन्दबुद्धेः प्रतिभाति तदेवात्र निर्दिष्टम्। भवतामन्यविचारो वर्तते चेत् नूनं सूच्यताम्।
अनेन लेखोयं समाप्यते। शुभं भूयात्।


Leave a comment