किं लिखेयमधुना निरुत्साहाहम्। दिनचतुष्टयं मम भागिनेय्या सह समयमयापयं सानन्दम्। सा चतुर्वर्षीयापिच मयि बहु स्निह्यति। तया अत्रागन्तव्यमियि हठं कृतमिति कारणेन मम भ्रातृपरिवारः आगतो’त्र। चतुर्दिनानि कथं वा कुत्र वा गतानीत्यधुना चिन्त्यते। प्रथमदिन एव अत्र “Harry Potter”-काननमिति स्थलं गतम्। सा किञ्चिद् भीता तथापि तत्र उलूकान्, एकशृङ्गान्, कृष्णद्वीपिनः, जतुकान् च वीक्ष्य जातकुतूहला। तत्र ऐन्द्रजालिकदण्डं स्वीकृत्य मायाचित्रं रचितम्। एवमेव दिनानि चत्वारि गतानि।
सा तु बहु अरोदद्गमनसमये यन्मां दुःखसागरे अपातयत् परं किं करवाम। जीवनस्थितिरेवैषा। पुनः विंशतिदिनाभ्यन्तरे मया पुनरस्याः गृहमागम्यते इति समाश्वास्य प्रेषितवती। ममापत्यं नास्तीति तस्यामितोपि मे स्नेहः प्रेम च। यदा सा वर्धते तदा विद्यालयमित्राणीति भवन्ति तर्हि मया सहैवमेव सन्तोषेण समयं यापयति वेति सन्देहास्पदमेव परं पुनः ईदृगवसरो नोपलभ्यत इति कारणेन यद्यपि कार्यालये विरामो नास्ति तथापि कथञ्चिदवसरं प्रकल्प्य गच्छेवेति चिन्तना।
गृहसदस्याः भाषणचलच्चित्रादीनीति किमपि अकुर्वन् परमहं तु तया सहैव बालक्रीडासु मग्ना। पुनः पुनः खेलनम्, कथाश्रावणमिति पिष्टपेषणमेव तथापि रोचतेतमां तत् कार्यमपि मे।सा मम अङ्के उपविश्यान्यत्र गन्तुमेव नेष्टवती। अमुष्मात् परं श्वः कार्यालयः इति चिन्तयामि तर्हि रोदितुमिच्छामि उच्चैः।
भवतु नाम। जीवने कोपि विषयः स्थिरः नास्ति। अयं कालोपि गच्छेदित्युक्त्वा लेखोयं समाप्यते। सर्वेषां गृहे धन्यवादविरामकालः सुकरः आनन्ददायकः च स्यात्।
शुभं भूयात्।


Leave a comment