श्रीः


Igniting the flame of knowledge!


कपिमत्स्यनीतिकथा

कथा काचिन्मया वीक्षिताङ्गलभाषया। तदहमत्र संस्कृतेन वच्मि। किमर्थमयं प्रयत्नः इति प्रश्ने सति अस्यां कथायां नीतिर् वर्तते यदनुसरणेन सुष्ठु जीवितुं शक्नुमः।

वृक्षे उपविष्टः कश्चित् कपिरधः काञ्चित् मत्स्यं जले ददर्श। मत्स्यः जले कष्टमनुभवति स्मेति विचिन्त्यास्य साहाय्यं निश्चप्रचं कार्यमिति तं जलाद् वृक्षे स्थापयामास। मत्स्यः तु तत्रैव मृतः। वयं जले क्षणमपि जीवितुं न शक्नुमः परन्तु मत्स्यस्य तु जले एव सुखवासः।मत्स्यः तु जलाद् बहिः क्षणमपि जीवितुं न शक्नुयात्। एतदज्ञात्वा स्वस्य स्थितिमेव मनसि ध्यात्वा मत्स्यस्यापि सा एव स्थितिर् भवेदित्यूहित्वा तस्य मत्स्यस्य हननहेतुरभूत् कपिः।

कपिः तु चिन्तयामास किमर्थं मत्स्यः मृतः? मया तु जलाद् तं रक्षितं समये साहाय्यं कृतं च तथापि मृतं तेनेति।

अस्माज्ज्ञायते यदस्मद्दृष्ट्या सुष्ठु स्यात् तदन्येषां विपदे भवेदतः कस्यचित् साहाय्यार्थं वा हस्तावलम्बनात् पूर्वं वा पृष्ठभूमिका ज्ञेया नो चेत् नः साहाय्येन तेषामेव हानिरुत्पाद्यते’स्माभिः। अत्रापि कपेः मनसि चिन्तना त्वुत्तमा परं विना चिन्तनं ज्ञानं वा कार्यं कृतम्। मत्स्यस्य जले एव सौकर्यम् इति अज्ञात्वा तस्य मृत्योः कारणकर्ता’भूत्।

अतः ढृढमत्या भगवन्तं प्रार्थ्य विचिन्त्य सर्वं ज्ञात्वा कार्यं कुर्मश्चेत् जयः एव। अमुष्माल्लेखोयं समाप्यते। शुभं भूयात् सर्वेषाम्।


Discover more from arabhati's arAbhatIyam :)

Subscribe to get the latest posts sent to your email.



Leave a comment

Discover more from arabhati's arAbhatIyam :)

Subscribe now to keep reading and get access to the full archive.

Continue reading