अद्यारभ्य आवयोः जयः एव यतोहि धनुर्मासः प्रारब्धः। अस्मिन् मासे शैत्ये अधिके सत्यपि वयं शीघ्रमुत्थाय “तिरु्प्पावै”-प्रबन्धाध्ययनं कुर्मः। अद्य कथञ्चित् प्रातःकाले सार्धपञ्चवादने देवालयः गम्यः इति निर्णीतम्। नाहं शीघ्रमुत्थातुं शक्नोमि अपि च शैत्यकालः। रात्रौ विलम्बेनोलूक इव किमपि क्रियते परमुषसि उत्थानं तु तिरुपतौ एव क्रियते’न्यथा नाहं शीघ्रमुत्थायिनी। अतः कृतसङ्कल्पाहं सेवाकालाय मन्दिरं गच्छेयमेवेति। मनसि तु शङ्कोत्पन्ना किमिदं साधितुं शक्नुयामिति यतोहि पूर्वमपीदृक् सङ्कल्पः कृतः यत्र विफलीभूताहम् परमस्मिन् समये मनसि ज्ञातं यत् कर्तुं शक्नोमीति (प्रायः कृतमिति कारणेनैव लिख्यते वेति न जाने :) )। गोदानुग्रहणेनोत्थाय मन्दिरं गत्वा भागवतैस्सह प्रबन्धपारायणं कृत्वा गृहमागमम्। मम तु किमपि असाध्यं साधितमिवाभासत। केचन चिन्तयेयुः किं शीघ्रमुत्थानाय लेखो वेति परं या निशोलूकवदाचरति(Night owl) तस्याः इदं प्रशंसनीयविषयः अतः एतदर्थः लेखः। अस्मान्नीतिः केत्युक्ते जीवने बहुधा अस्माभिः कार्यमिदं कर्तुं न शक्नुयामिति विचिन्त्य विना प्रयत्नं कार्यं त्यज्यते परं भगवति विश्वस्याग्रे यामश्चेद् दृढनिश्चयं विजयलक्ष्मीः अस्मानालिङ्गति। नान्यः पन्थाः विद्यते।
मासेषु मार्गशीर्षोहमिति भगवतैवोक्तं ननु?
मार्गशीर्षमासे सर्वे एवमेव शीघ्रमुत्थाय प्रबन्धपारायणं कुर्वन्त्वित्युक्त्वा लेखोयं समाप्यते। अस्य मासस्य का विशेषता इति गते संवत्सरे आङ्गलभाषया लिखितस्य मम लेखस्य कटकमत्र – https://www.indica.today/quick-reads/margazhi-marvel-andals-thiruppavai-and-the-spiritual-symphony-a/
शुभपठनं भूयात्। शुभमस्तु।

Leave a comment