श्रीः


Igniting the flame of knowledge!


ழ-कार!

अद्य मार्गशीर्षमासस्य चतुर्थं दिनम्। यथा पूर्वमुक्तं प्रत्यहं तिरुप्पावै-प्रबन्धः उच्यते उषसि। अद्य “ஆழி மழைக் கண்ணா” श्लोकः। अस्य श्लोकस्य वैशिष्ट्यं यत् श्लोके एकादशवारं “ழ”-कारस्य प्रयोगः भवति। ழ इति अक्षरं द्रमिडभाषायाः विशिष्टमक्षरम्। द्रमिडजनाः अपि केचिदुच्चारयितुं कष्टमनुभवन्ति। वस्तुतः तमिழ் एव भाषायाः नाम परं ழ-कारं लेखितुं नास्त्युचितमक्षरं देवनागर्या वा’ङ्गलेन वा। अतः सर्वेभाषा-अज्ञानिनः उच्चारणदोषेणैव वदन्ति यथा तमिल्, तमिज् इत्यादीनि। अमुं तिरुप्पावै-श्लोकं शृणुमश्चेत् कर्णसुभगं भवति। अस्मिन् श्लोके इतोपि वेदवेदान्तविषयाः सन्ति। नाहं तत् सर्वमत्र प्रतिपादयामि यतोहि गोदया गभीरविषयाः अस्मिन् प्रबन्धे प्रतिपादिताः ये आचार्यमुखादेव श्रोतव्याः ज्ञातव्याः च।

btw, मया तु चतुर्दिनान्यपि शीघ्रमुत्थितानि। इतोपयुपविंशतिः दिनान्यवशिष्टानि। पश्येम। शुभं भूयात् सर्वेभ्यः।


Discover more from arabhati's arAbhatIyam :)

Subscribe to get the latest posts sent to your email.



Leave a comment

Discover more from arabhati's arAbhatIyam :)

Subscribe now to keep reading and get access to the full archive.

Continue reading