वाक्चातुर्यमस्ति चेत् लक्ष्मीहयवदनकृपया या कापि स्यादवस्था परं तस्माद् विमोचनं सुलभतया भवेदिति लेखेस्मिन् प्रतिपाद्यते।इयं कथापि भोजप्रबन्धे सुष्ठ्वुल्लिखिता। भोजराजशासनकाले कश्चिच्चोरो गृहीतः । राज्ञः पुरतः निग्रहाय स आनीतः। तदा भोजराजस्तस्मै कारागृहवासमदान्निग्रहरूपेण। तदा पटुवाचा चोरेणामुना भोजराजः पद्यप्रिय इति ज्ञात्वा सत्वरं पद्यमेकं व्यरचि यदधो लिखितम्।
भट्टिर्नष्टो भारविश्चापि नष्टो भिक्षुर्नष्टो भीमसेनोपि नष्टः।
भुक्कुण्डो’हं भूपतिस्त्वं हि राजन् भब्भापङ्क्तावन्तकः सन्निविष्टः।।
अन्वयः – भट्टिः नष्टः भारविः च अपि नष्टः, भिक्षुः नष्टः भीमसेनः अपि नष्टः, भुक्कुण्डः अहं भूपतिः त्वं राजन्! भब्भापङ्क्तौ अन्तकः सन्निविष्टः।
भट्टिः इत्यत्र भकारः,भारविः इत्यत्र भाकारः, भिक्षुः इत्यत्र भिकारः, भीमसेनः इत्यत्र भीकारः। गुणिताक्षरावल्यां अग्रिमाक्षरं भुकारः। भुक्कुण्डो राज्ञा दत्ताय निग्रहाय वदति यद् भकारपङ्क्तौ साम्प्रतं भुकारोस्ति परमग्रे भूकारोस्त्यतो राजा अन्तकः त्वां न मुञ्चेदिति विवक्षा। एतच्छ्रुत्वा राजा विस्मयान्वितः। भुक्कण्डस्य वाक्-पटुतापि राजानमाकर्षत्। अयं तदनन्तरममुं चोरं मुमोच।
अतो वयं सर्वे’पि विद्यालक्षमीसमेतहयग्रीवमुपास्महे वाक्पटुतायै। शुभं भूयात्।


Leave a comment