अद्य आचार्यसार्वभौमाणां श्रीरामनुजाचार्याणां जयन्ती अतः यतिराजसप्ततितः पद्यमेकमुल्लिख्यते’त्र-
आकर्षणानि निगमान्तसरस्वतीनाम् उच्चाटनानि बहिरन्तरुपप्लवानाम्।
पथ्यानि घोरभवसंज्वरपीडितानां हृद्यानि भान्ति यतिराजमुनेर् वचांसि॥२६॥
अन्वयः – यतिराजमुनेः वचांसि बहिरन्तरुपप्लवानाम् उच्चाटनानि निगमान्तसरस्वतीनाम् आकर्षणानि घोरभवसंज्वरपीडितानां पथ्यानि हृद्यानि भान्ति।
अर्थः – भाष्यकाराणां वचांसि
१) बहिः अन्तः च ये विप्लवाः सन्ति, तेषाम् उत्पाटकानि भवन्ति।
२) वेदाः यत् वदन्ति तदेव पुनः सुष्ठु प्रतिपादयन्ति।
३) संसारसागरे पीडितानां पथ्यभोजनमिव इत्युक्ते भेषजमिव भवन्ति।
४) मनोहारीणि च
तादृशवचांसि अनुसृत्य सत्पथे गच्छेम तदा जीवनं सुकरं भवेदिति। अद्य आचार्यजयन्तीदिने आचार्यानुजायाः गोदायाः मत्कृतचित्रं प्रकाश्यते। मासत्रयं अस्मिन् कार्यं कुर्वाणाद्य शुभदिने समापितवती। एतस्य विषये पृथक् उल्लिख्यते। भाष्यकाराणां तिरुप्पावैप्रबन्धे प्रीतिः सर्वैः ज्ञाता एव। एतत् सर्वं विज्ञाय भगवत्(भगवती प्रायः अत्र) सङ्कल्पः इति विदित्वा अहं पुलकाङ्किताभूवम्। भवतु नाम।
श्रीरामानुजचरणौ शरणं प्रपद्ये इत्युक्त्वा विरमामि। शुभं भूयात्।


Leave a comment