अद्याचार्याणामशीत्यब्दपूर्तिमहोसवसमये तत्समयश्रीकार्यस्वामिना श्रीपळवेरिशठकोपाचार्यमहाभागेन रचिताचार्यस्तुतिः प्रतिपाद्यते –
श्रीरङ्गवीररघुराट् श्रुत्यन्तयतिशेखरैः। सम्यग्दृष्टाय मुनये नमो नारायणात्मने।।
अर्थः -> तस्मै नारायणाख्ययतये नमः। कीदृशाय नारायणयतये? सम्यग्दृष्टाय मुनये। कैः मस्यज्दृष्टाय? श्रीरङ्गवीररघुराट्श्रुत्यन्तयतिशेखरैः इत्युक्तौ ४२-तमाः ४३-तमाः ४४-तमाः आचार्याः अत्र निर्दिष्टाः।
नारायणाख्ययतिशेखरपादपद्मं मद्दैवतं किमपि वाञ्छितसर्वदायि। यद्वैभवश्रवणतो हि भवन्ति पूताः प्रजाप्रसादमुपयान्ति च सर्वलोकाः।।
अर्थः -> मम इष्टदैवतं नारायणयतिशेखरस्य पादपद्मं वाञ्छितं सर्वं ददाति।यस्य वैभवं श्रुत्वा जनाः पवित्राः भवन्ति, सर्वे प्रसादमित्युक्ते मङ्गलं प्राप्नुवन्ति।
I will give an English explanation for this as this verse is so beautiful
The lotus feet of the great ascetic named Nārāyaṇan are my chosen deity—an extraordinary source that grants all desired blessings. By merely hearing of his glory, people become purified, and all the worlds attain divine grace.
विद्योपदेशेन धनाभिवृद्धया मठस्य पुष्टिं विवरीतुकामः। नारायणाख्यो यतिवण् शठारिः जेजीयतां नः शरणं गुरुः सः।।
अर्थः -> विद्यायाः उपदेशेन धनस्य अभिवर्धनेन श्रीसन्निधेः पुष्टिं कर्तुकामः नारायणाख्ययतिवरः यः अस्माकं शरणं सः गुरुः जेजीयताम् (जयतु) इति।
May that guru, the foremost among ascetics, named Nārāyaṇa—who wishes to expand the prosperity of the matam through the teaching of knowledge and through the increase of resources, ever be victorious; he is our refuge.
தேவு மற்றறியேன் நாராயண யதி!🙏🙏


Leave a comment