मम पुरातनपत्रिकापठनमनुवर्तते। अत्रेदं सम्भाषणं पद्यरूपेण लिखितमदर्शि। बालकृष्णः तु मम प्रियोत उल्लिख्यते’त्र। अत्र कृष्णगोपिकयोः संवादः साक्षात् नवनीतचोरसमये। काचित् गोपिका स्वगेहे कृष्णं वीक्ष्य तत्रापि तस्य हस्तं नवनीतभाजने वीक्ष्य पृच्छति।
कस्त्वं कृष्णमवेहि मां किमिह ते मन्मन्दिराशङ्कया युक्तं तन्नवनीतभाजनपुटे न्यस्तः किमर्थः करः।
कर्तुं तत्र पिपीलिकापनयनं सुप्ताः किमुद्बोधिताः बाला वत्सगतिं विवेक्तुमिति संजल्पन् हरिः पातु नः।।
गोपिका – > कस्त्वं (कः त्वम्?)
कृष्णः -> कृष्णमवेहि माम् (कृष्णं मामिति जानीहि)
गोपिका -> किमिह ते (अत्र किं कार्यं तव?)
कृष्णः -> मन्मन्दिराशङ्कया (मम गृहमिति मया चिन्तितम्)
गोपिका -> युक्तं तन्नवनीतभाजनपुटे न्यस्तः किमर्थः करः। (अस्तु तर्हि किमर्थः तव करः नवनीतपात्रे स्थापितः?)
कृष्णः -> कर्तुं तत्र पिपीलिकापनयनम् ( तत्र पिपीलिकाः आसन्नतः तेषामपनयनाय मया करः स्थापितः)
गोपिका -> सुप्ताः किमुद्बोधिताः बाला (किं त्वं निद्राणान् बालान् बोधितवान्?)
कृष्णः -> वत्सगतिं विवेक्तुम् (वत्सानां गतिं ज्ञातुमेव)
इति संजल्पन् हरिः पातु नः -> एवं जल्पन् हरिः गोपिकया सह अस्मान् पातु।
Wow… सुन्दरं किल? अयमेव प्रभावः बालकृष्णस्य।
अस्माकं श्रीसन्निधेः दोलकृष्णस्य पञ्चविंशतितमावतारदिनमिति Atlanta-राज्ये विस्तरेण आचराम। दिनचतुष्टये’पि कृष्णानुभवो यत्र वयं सर्वे गोपिकायामहे। विल्लिवलमाचार्याः दीर्घदर्शिनः।
जय श्रीकृष्ण!


Leave a comment