Igniting the flame of knowledge!


Note: I’ve added a new podcast category where I share Spotify audio versions (podcastlink)of some posts!

Villivalam HH’s Śatamāna Mahotsava: A Century of Divine Legacy (६)

वाचकेभ्यो भूयांसि नमांसि। अद्याचार्याणामाचार्यभक्तिविषये किञ्चित् प्रतिपाद्यते। मठस्य चतुश्चत्वारिंशानामाचार्याणां स्तुतिः कृता विल्लिवलाचार्यैः। एषां कथनं यन्मुक्कूराचार्यवाग्वैशिष्ट्यादेवेमे पञ्चचत्वारिंशमाचार्यस्थानमलङ्चक्रुरिति। तच्छ्लोकेनानेन प्रतिपाद्यते –

वेदान्तदेशिकयतेः वाग्बलादतुलाद् ध्रुवम्। प्राप्नोति बहुधा श्रेयः यतिर्नारायणः कृती।।

पुरा यदा पूर्वाश्रमे मुक्कूर-आचार्याणामाज्ञया श्रीरङ्गं यात्वा तत्र कानिचन दिनानि आराधकरूपेण कैंकर्यं चकार स्वमिना। तदा मुक्कूर्-आचार्याः स्वस्याशक्तिं प्रकटयन्तः “तुभ्यमेवाग्रिमस्थानं दातुमीशे काले” इत्याशासते। इदं निशम्य विल्लिवलाचार्याणां मनसि जाता शङ्का यच्छ्रवणमात्रेण मुक्कूर-आचार्येण “नोत्तरं वक्तुमर्हसि” इदं भगवन्नियमनमित्युक्तं यद् रामायणे रामेणोक्तं विभीषणमुद्दिशयेति विल्लिवलाचार्याः एव स्वयमुल्लिखिताः। तदनन्तरं बहुभ्यः कालेभ्यः परम् आचार्याणां तद्वागबलेनैव विल्लिवलाचार्याः ४५-तमं पट्टमलङ्चक्रुः। इममर्थमेवेदं पद्यं प्रतिपादयति।

श्रुत्यन्तगुर्वाख्ययतीश्वराणाममोघवाक्त्वं प्रथितं पृथिव्याम्।

यतो वयं तादृशवाग्भिरेव भ्राजामहे स्तानमिदं प्रपन्नाः।।

अस्यां भूमौ मुक्कूर-आचार्याणाम् अमोघवाक्त्वं प्रसिद्धमवे। तेषां वाग्भिरेवेदं स्थानं नारायणयतिरूपेण भ्राजे इत्यर्थः। कीदृशी आचार्यभक्तिः?

न केवलमिदं परन्तु विल्लिवलाचार्यैः “आचार्यमङलम्” इति स्तुतिः कृता मुक्कूर्-आचार्यमुद्दिश्य यस्य देवनागरी-उट्टङ्कनं तु मया कृतम्। तत्रेदं पद्यं वीक्षितम् –

किं नु “वेङ्कटनाथोऽसौ” इति विद्वद्भिरीक्षितः। हेतुभिः विविधैस्सद्भिस्तस्मै पूज्याय मङ्गलम् ।।

किं साक्षात् स्वामिवेदान्तदेशिकस्य पुनरवतारः मुक्कूर्-स्वामीति सर्वे विद्वांसः चिन्तयामास। तादृशाय पूज्याय आचार्याय मङ्गलमिति।

தேவு மற்றறியேன் நாராயண யதி!


Discover more from arabhati's arbhatyam :)

Subscribe to get the latest posts sent to your email.



Leave a comment

Discover more from arabhati's arbhatyam :)

Subscribe now to keep reading and get access to the full archive.

Continue reading