श्रीः


Igniting the flame of knowledge!


वेङ्कटाध्वरिपद्यम् – ४

सुभाषितकौस्तुभात् पद्यमेकं वीक्षामहे यत्र यमकालङ्कारः सुष्ठु प्रतिपादितः। पद्यार्थस्तु सरल एवातः नास्त्यर्थे गभीरता परं रचनाशैली तु 👌🏻

रात्रीर्नीरजनिकरा नीरजनिकरापरिष्कृता सरसी। अपि भजते न वरसभा नवरसभावज्ञवर्जिता शोभाम्।। ~ वेङ्कटाध्वरी (सुभाषितकौस्तुभम्)

रात्रिः निर्+रजनीकरा [प्रादिबहुव्रीहिसमासः], सरसी नीरजानां निकरैः अपिरष्कृताः[अभूषिताः] नवरसभावज्ञवर्जिता वरसभा अपि शोभां न भजते।

व्याकरणांशोत्र विशेषेण लक्षणीयोत्र – नीरजनिकरा -> रजनीं करोतीति रजनीकरः इति उपपदसमासः [Moon] -> निर्+रजनीकरः -> निर्गतः रजनीकरः यस्मात् सः -> निर्+रजनीकर/रा/रम् (प्रातिपदिकम्) -> प्रादिबहुव्रीहिसमासः।

Now, निर्+रजनिकर -> नि + रजनिकर [रो रि ८.३.१४ इति रेफस्य रेफे परे लोपः] -> नीरजनीकर [ढ्रलोपे पूर्वस्य दीर्घोऽणः ६.३.१११ इति दीर्घः]

वर सभा & नव रसाः इति कर्मधारयः। नवरसानां भावः इति षष्ठीतत्पुरुषः। नवरसभावं जानातीति नवरसभावज्ञः इति उपपदसमासः। नवरसभावज्ञैः वर्जिता – नवरसभावज्ञवर्जिता इति तृतीयातत्पुरुषः।

वेङ्कटाध्वरी सामान्यपद्यमपि कथञ्चित् शोभयति। And here’s one of his verses that made me go, “WOW!” Such a simple thought, yet woven into Sanskrit with such elegance and poetic brilliance that you can’t help but stop, marvel, and read it a second time! And perhaps a third, just to savour its beauty!

AI’s Translation – As a night bereft of the moon and a pond bereft of lotuses lose their splendour, so too does an assembly devoid of those well-versed in the Navarasas fail to shine.

शुभं भूयात्।


Discover more from arabhati's arAbhatIyam :)

Subscribe to get the latest posts sent to your email.



Leave a Reply

Discover more from arabhati's arAbhatIyam :)

Subscribe now to keep reading and get access to the full archive.

Continue reading