श्रीः


Igniting the flame of knowledge!


उत्तरभारतयात्रा।

नमस्सर्वेभ्यः। अत्र संस्कृतेन प्रतिसप्ताहं लेखनीयमिति धिया “blog” प्रारब्धं परन्तु मध्ये आङ्गलमोहात् तया भाषया लेखितुं प्रारभे। प्रतिदिनमनया भाषया लिख्यते परमधुना संस्कृते किमपि लेखनीयमित्ययं लेखः। साम्प्रतं भारते’स्मि। उत्तरभारते तीर्थयात्रार्थमगमम्। आचार्यानुग्रहेण नैमिषारण्यं साकेतं च गत्वा गोमतीसरव्योः स्नानं कृत्वा भगवद्दर्शनेन मुदितास्मि। भागवतानां सङ्घे आसम्। नन्वयं पूर्वपुण्यसुकृत्। मया पूर्वमेव ज्ञातं यदाचार्याः भगवद्दर्शनार्थमुत्तरभारतं यान्तीत्यतः कथन्चिदस्मिन् समय एव मयापि गम्यमिति चिन्तनम्।सर्वं सुष्ठु जातम्। तत्र भागवतानस्मान् वीक्ष्य सर्वे आदरेण व्यवहृतवन्तः। तत्र पृथगितोपि लिख्यते विस्तरेणाङ्गलमिश्रितसंस्कृतेनाग्रे। तदर्थं प्रतीक्ष्यताम्। पुनः मद्गृहं प्राप्य नियततया संस्कृतेन प्रतिशुक्रवासरं किमपि लिख्यते’त्र।

शुभं भूयात् सर्वेषां भगवद्भागवदनुग्रहेण।

(Well, for those who don’t understand this language, I am traveling, so look out for my detailed post on the wonderful places that I have visited in an English mixed Sanskrit post)


Discover more from arabhati's arAbhatIyam :)

Subscribe to get the latest posts sent to your email.



One response to “उत्तरभारतयात्रा।”

  1. Himanshi Dargas Avatar
    Himanshi Dargas

    I like your writing style 🙂👌

    Liked by 1 person

Leave a comment

Discover more from arabhati's arAbhatIyam :)

Subscribe now to keep reading and get access to the full archive.

Continue reading