श्रीः


Igniting the flame of knowledge!


कः विश्वासार्हः?

अद्य संस्कृतेन किमपि लेखनीयमिति कृतनिश्चयाहम्। यदा blog-लिखेयमिति निर्णीतं तदा केवलं संस्कृते इति धीरासीत् तदनन्तरमाङ्गलयापि लिखेयमिति चिन्तना तदनन्तरमज्ञानेनाधिक्येनाङ्गले लेखितुं प्रारभे। नेयं भाषा मातृभाषा तथापि मातृभाषापेक्षया वाग्विभवः आङ्गले एव। भवतु नाम। प्रतिदिनं किमपि पठ्यते मया तदा हृद्यं किमपि पठ्यते तदत्रोक्लिख्यते।

एवेमेवाद्य विश्वासविषये किञ्चन पद्यमदर्शि। कश्चन मम मनसि विद्यमानं चिन्तनं कथञ्चित् ज्ञात्वा लिखितमिव भासते।

न विश्वसेदविश्वस्ते विश्वस्तेऽपि न विश्वसेत्। विश्वासाद् भयमुत्पन्नं मूलादपि निकृन्तति ।।

अन्वयः – अविश्वस्ते न विश्वसेद् विश्वस्ते अपि न विश्वसेत्। विश्वासाद् उत्पन्नं भयं मूलाद् अपि निकृन्तति।

अर्थः – यस्मिन् विश्वस्तुं योग्यता नास्ति तस्मिन् विश्वासः न कार्यः।यस्मिन् विश्वासं कर्तुं शक्नुमः तस्मिन्नपि अतिविश्वासः न कार्यः। यतोहि विश्वासात् उत्पन्नं भयं मूलात् अपि विनाशयति। अतः कोपि न विश्वासार्हः इति। Never trust anyone completely इति आङ्गलया उच्यते ननु तदेवात्र प्रतिपादितम्।

सामान्यतयाहं कस्मिन्नपि न विश्वसीमि किमपि न वदेयमपि। ममोपरि कोपि दोषोस्ति चेत् नाहमधिकभाषिणी न वा गुह्यं वदामीति। इदं पठित्वा मुखमेव नोद्घाटयामीति मन्ये।:)


Discover more from arabhati's arAbhatIyam :)

Subscribe to get the latest posts sent to your email.



Leave a comment

Discover more from arabhati's arAbhatIyam :)

Subscribe now to keep reading and get access to the full archive.

Continue reading