श्रीः


Igniting the flame of knowledge!


चित्तचेष्टा!

प्रतिदिनं वा क्रमेण वा किमपि लेखनीयमिति चिन्तना परन्तु सप्ताहः जातः किमपि न लिखितं मया समयाभावात्। यथा पूर्वमुक्तं संस्कृतवर्गाः प्रारब्धाः अतः समयं न प्राप्नोमि। भवतु नाम।अद्य किमपि लिख्यते। वचः किञ्चिद् वीक्षितं यन्मां चिन्तयितुं प्रणुदति।

चिता चिन्ता अनयोर् मध्ये चिन्ता नाम गरीयसी। नन्विदं सत्यम्। कदाचित् कमपि विषयं ज्ञात्वा वा श्रुत्वा वा गाढचिन्तने मग्ना भवेम। तन्नोचितमिति ज्ञात्वापि मनः तस्मान्मुक्तिं न प्राप्नोति। अतः लेखोयं। प्रायशः लेखनेन सर्वं विस्मरेयम्।

पुरा ईदृश्यां स्थित्यां मया पद्यमेकं व्यरचि यदत्र प्रस्तूयते –

चिन्तादुर्निगमस्थानाद्‌ विमोक्तुमनसः भुवि।

मध्येसिन्धु महावीच्यां तरितुकामसन्निभाः।।

कथञ्चिद्भगवति विश्वस्याग्रे गन्तव्यं नो चेज्जीवनमेव क्लेशाय। आं जाने’द्य निरुत्साहलेखः परं कदाचित् चित्तवृत्त्यनुकूलमेव लेखितुं शक्यते। शुभं भूयात् ।


Discover more from arabhati's arAbhatIyam :)

Subscribe to get the latest posts sent to your email.



Leave a Reply

Discover more from arabhati's arAbhatIyam :)

Subscribe now to keep reading and get access to the full archive.

Continue reading