पद्यचमत्कारवर्धनोलङ्कारः। अलङ्कारः द्विविधः अर्थालङ्कारः शब्दालङ्कारश्चेति। उपमादयः अर्थालङ्कारे प्रासादयः शब्दालङ्कारे च अन्तर्भूताः। नाम्ना वेदितुं शक्नुमः यदर्थालङ्कारे अर्थस्य प्राधान्यं शब्दालङ्कारे शब्दस्य प्राधान्यम्। अस्मिन् लेखे यमकमिति शब्दालङ्कारभेदविषये उदाहृतम्। यमकमित्युक्ते किम? यम्-धातोः निष्पन्नस्यास्य यमकाख्यपदस्यार्थः पदानामावृत्तिः। एकं पदं भिन्नार्थेषु प्रयुक्तं चेत् यमकमित्युच्यते। पदावृत्त्या द्वरिरुक्तिदोषो न भवेत् किमिति प्रश्ने सति यत्र पदानामर्थभेदो विद्यते अन्यथा वीप्सा वा तर्हि नैव स्याद् द्विरुक्तिस्तत्रेति काव्यशास्त्रम्।
संस्कृतसाहित्ये बहुभिः प्रसिद्धैः कविभिः बहूनि प्रसिद्धानि काव्यानि रचितानि। तेषु प्रसिद्धः कविः श्रीवेङ्कटाध्वरी यः सप्तदशशतके द्रमिडराज्ये काञ्चीनगरे सञ्जातः । तस्य लक्ष्मीसहस्राख्यकाव्यं सुप्रसिद्धं सामान्यजनेष्वपि। तस्य अलङ्कारयुक्तरचनाशैली वाचकान् न केवलं तुष्यति परं संस्कृतसाहित्यमध्येतुं नः प्रेरयति। अमुना कविना बहवो ग्रन्थाः रचिताः येषु अन्यतमः विश्वगुणादर्शचम्पूः इति प्रसिद्धचम्पूकाव्यं यत्र कविना उच्चावचधर्म्यस्थलविषये व्यलेखि। अस्याः चम्प्वाः उद्धृतौ श्लोकौ कौचिदवलोकयाम यत्र कविना यमकालङ्कारं प्रयुज्य महाविष्णुः स्तुतः।
प्रथमः श्लोकः श्रीरङ्गक्षेत्ररङ्गनायकस्तुतिः। अयं मरुद्वृधापरिवृतदिव्यदेशः भूलोकवैकुण्ठः इति प्रथितः।
पद्यम् –
श्रीरङ्गे शोभते यस्य श्रीरङ्गे शोभते च यः।
नमोऽहं कलये तस्मै न मोहं कलये ततः॥
अनुष्टुप्-छन्दसि बद्धेऽमुष्मिन् श्रवणसुभगे पद्ये यमकालङ्कारः सुष्ठु दृश्यते। अस्मिन् श्लोके प्रथम-द्वितीय-पादयोरपि च तृतीय-चतुर्थ-पादयोर् मध्ये यमकं वर्तते यदस्य श्लोकस्य वैशिष्ट्यम्। वस्तुतः वेङ्कटाध्वरिकविः ईदृशवैशिष्ट्यरचनातलस्पृगिति निश्चप्रचं भणितुं शक्नुमः।
श्लोकान्वयः – यस्य अङ्गे श्रीः शोभते यः च श्रीरङ्गे शोभते तस्मै अहं नमः कलये ततः न मोहं कलये।
श्लोकार्थः – यः (रङ्गेशः) श्रीरङ्गनगरे विराजते, यस्य (रङ्गेशस्य) अङ्गे (वक्षस्स्थले) श्रीः (लक्ष्मीः) विराजते, तस्मै (रङ्गनाथाय) अहं नमः कलये (करोमि)। तस्य रङ्गनाथस्य नमस्करणात् मोहं (अज्ञानम्) न कलये (धरामि/भजामि)।
अत्र कल्-धातोः प्रयोगः कृतः यस्य अनेकार्थः परं पद्येस्मिन् करोमि-धरामि इति अर्थद्वयस्य प्रयोगः।
‘श्रीरङ्गे’ इति नगरस्य नाम द्वितीये पादे, ‘श्रीः अङ्गे’ इति विसर्गसन्धिं कृत्वा ‘श्रीरङ्गे’ इति पर्थमे पादे यमकम्। एवमेव तृतीये पादे ‘नमः अहम्’ सन्धेरनन्तरं ‘नमोहम्’ इति ‘ न मोहमि’ति चतुर्थे पादे यमकम्। यद्यपि श्लोकार्थः सरलः रचनाशैली अतिशोभनम्।
इमं श्लोकं स्वीकृत्याङ्गलभाषया लेखः व्यरचि यच्छ्रीनृसिंहप्रियापत्रिकायां प्रकाशितः। तस्य प्रतिलिपिः योज्यते कदाचित्।

Leave a comment