Igniting the flame of knowledge!


Note: I’ve added a new podcast category where I share Spotify audio versions (podcastlink)of some posts!

Villivalam HH’s Śatamāna Mahotsava: A Century of Divine Legacy (९)

वाचकेभ्यो भूयांसि नमांसि। अस्मिन् लेखे काणियम्पाक्कं u.ve श्रीदेवनाथाचार्यस्वामिना विरचितानि पद्यान्यवलोकयामाचार्याणां विषये।

श्रीलक्ष्मीनरसिंहदिव्यचरणद्वन्द्वैकसंसेवकश्श्रीवणकारिजसंज्ञया हि महितो नारायणो योगिराट्। वेदान्तार्थविचारणेन विदुषामाह्लादसंवर्धकः शिष्यानुग्रहतत्परो विजयते विज्ञानकल्पद्रुमः।। ~ शार्दूलविक्रीडितच्छन्दः

अर्थः -> श्रीलक्ष्मीनरसिंहस्य दिव्यचरणद्वयस्य एवं सेवकः, श्रीवण्कारिजाख्यया महितः नायारणयतिवरः वेदान्तस्य अर्थस्य विचारणेन पण्डितानां सन्तोषं संवर्धयति, शिष्याणां अनुग्रहे तत्परः इत्युक्तौ यः शिष्यान् अनुगृह्य तेषां वृद्धिमभिलषति, तादृशः विज्ञानकल्पवृक्षः सदा विजयते।

(May the illustrious Nārāyaṇa, the foremost among ascetics and revered as Śrīvaṇkārija, ever shine in glory. A devoted servant of the divine feet of Śrī Lakṣmī-Narasimha, he brings joy to scholars through his profound reflections on the truths of Vedānta and remains ever dedicated to uplifting his disciples. Truly, he stands as a wish-fulfilling tree of wisdom.)

वितरति किरणान नो मेघबाधाश्शशाङ्कः प्रवहति न कदाचित् सह्यजा वृष्ट्यभावात्। तपनवशगवायुः शीतता त्यागशीलः त्यजति न सहजां स्वां दातृतां योगिवर्यः।। ~ मालिनी

इदं पद्यं सरलमेवातो न विवृणोमि विस्तरेण परमत्र आचार्याणां वदान्यत्वं विव्रियते यत् स्ववगमः।

सरसिजसदृशश्रीकान्तनेत्रप्रभायाम् अनिशमति निमज्जन् सर्वभावेन योगी। विषयवरतितः तद्ध्यानसंलग्नचेताः मधुकरशुचिवृत्तिं राजते सेवमानः।। ~ मालिनी

अर्थः -> नारायणयोगी सदा भगवतः कमलनेत्रकान्तौ मग्नः, विषयेषु विरतः, तद्ध्याने लग्नचित्तः, मधुकरवत् शुद्धवृत्तिं आचरन् शोभते। अत्र आचार्यः अलिना सह तुल्यते। अलिः मकरन्दं स्वदते, आचार्यः भगवच्चरणारविन्दमकरन्दं स्वदते। अलयः पद्मेषु मग्नाः, आचार्यः तु भगवच्चरणारविन्दे मग्नः।

श्रीभाष्ये प्रथितश्रुतप्रकाशसहिते श्रीवेदचूडागुरोः श्रीसूक्तिष्वथ दिव्यसूरि सुकृतिः व्याख्यानग्रन्थेष्वपि। कृत्वा भूरिपरिश्रमं प्रवचनं चाप्त्वा सभायां यशः श्रीनारायणयोगिराट् वितनुते शार्दूलविदक्रीडितम्।। ~ शार्दूलविक्रीडितम्

The real beauty of this verse lies in how the poet gracefully weaves the very name of the metre into the padyam itself. Śrī Nārāyaṇa Yati, after immense effort in studying and teaching the Śrībhāṣya along with the celebrated Śrutaprakāśikā, the sacred works of the 44th HH, and the commentaries on the divine saints, earned great renown through his discourses in learned assemblies. And now, in fitting grandeur, he unfolds this verse in the majestic Śārdūlavikrīḍita metre.

With that, this post is a wrap. தேவு மற்றறியேன் நாராயண யதி!🙏🙏


Discover more from arabhati's arbhatyam :)

Subscribe to get the latest posts sent to your email.



Leave a comment

Discover more from arabhati's arbhatyam :)

Subscribe now to keep reading and get access to the full archive.

Continue reading