Igniting the flame of knowledge!


Note: I’ve added a new podcast category where I share Spotify audio versions (podcastlink)of some posts!

Villivalam HH’s Śatamāna Mahotsava: A Century of Divine Legacy (१०)

वाचकेभ्यो भूयांसि नमांसि। अस्मिन् लेखे विद्वद्भिः मत्कालाक्षेपाचार्यैः नावल्पाक्कयज्ञवराहचार्यैः लिखितं चाटु पद्यमवलोकयाम।

प्रथमं स्वस्य आचार्यः यस्य नामापि नारायणः अपि च नारायणयतिः अतः अनयोः नामसाम्यं स्वीकृत्य स्तुतिरियम् –

नारायणार्यं मखिवर्यमीडे नारायणार्यं यतिवर्यमद्य। नानाविशेषार्थनिधी उभौ मां नानाविधैर्योजयतः शुभौघैः।।

एकः आचार्यः यागं करोतीति मखिवर्यः अपरः तु नारायणयतिः यः यतिवर्यः। आचार्यौ उभावपि स्वस्य समीपे विद्यमानसूक्ष्मविक्षेषार्थान् निधिरिव मन्येते। तयोः अस्मिन् प्रीतिः अत्यधिका इति स्तुतिं कृत्वा इदं पद्यं प्रतिपादयति –

शिताग्र्यधीः शिक्षितशिष्यवर्गः शिरोमणिः शिष्टशिखामणिश्च। शितव्रतोऽसौ शिवकृत् शिखिप्रभः शीत्युत्सवार्होऽर्हति किन्त्वशीतिम्।।

आचार्यः शिताग्र्यधीः इत्युक्ते कुशलमतिः, अयं शिष्यवर्गान् शिक्षित्वा सुपथे आनयति, प्राप्तशिरोमणिपदवीकः, शिष्टेषु शिखामणिः इव प्रकाशते, कठिनव्रताचरणं चकार, मङ्गलानि कार्याणि चकार, अग्नेः शिखाप्रभा इव ज्वलति – एवं सर्वत्र ‘शि’ इति अक्षरेण तस्य प्रभावः सूचितः अतः शीत्युत्सवः उचितः आचार्याणां परमधुना चित्रं यत् एषामशीत्युत्सवः प्रचलतीति श्लेषोत्र। शितपदस्य विपरीतं भवेदशीतिः ।

This is a breathtaking piece of wordplay by Navalpakkam Swamy, one that can truly be savored only in Saṃskṛtam—for the moment it is translated, a measure of its radiance is lost.

தேவு மற்றறியேன் நாராயண யதி!

[By the divine anugraham of Villivalam Srimad Azhagiyasingar, and as part of SAM USA’s Śatamāna Celebrations, śiṣyas had the blessed opportunity to recite the entire Nālāyira Divya Prabandham. It was our great fortune and honor to recite Tirucchandaviruttam on July 15, 2026. Of course, we started with Kesavarya Kripapatram and Thirupallandu, but those are not part of this recording.]


Discover more from arabhati's arbhatyam :)

Subscribe to get the latest posts sent to your email.



Leave a comment

Discover more from arabhati's arbhatyam :)

Subscribe now to keep reading and get access to the full archive.

Continue reading