Igniting the flame of knowledge!


Note: I’ve added a new podcast category where I share Spotify audio versions (podcastlink)of some posts!

Mukkur HH Chronicles – When Generosity Speaks in Honeyed Words!

Today is Mukkur HH’s Tirunakshatram, and it is my great fortune to be in Srirangam, at his Brindavanam, seeking his blessings on this special day. 🙏

And so, I thought this would be a fitting day to kinda wrap up my Mukkur HH Chronicles — with a beautiful padya on our Acharya, along with a few thoughts of my own.

Of course, “wrap up” is a dangerous phrase when it comes to me . If I come across another beautiful verse on our Acharya, you can be absolutely sure I’ll find an excuse to immortalize it on my blog! 🙏

अद्य आचार्याणामौदार्यगुणं प्रशंस्य पद्यं किञ्चिद् वर्तते। केन लिखितमिति न जाने यतोहि तत् पत्रिकासु नासीत्। पद्यं तु सरलमेव।

दाता न दापयति दापयिता न दत्ते यो दानदापनपरो मधुरं न वक्ति।

दानं च दापनमथो मधुरा च वाणी त्रीण्यप्यमूनि खलु योगिवरे वसन्ति।।

अर्थः -> लोकेस्मिन् दाता अन्यान् दापयितुं न प्रयतते, यः अन्यान् दापयति सः स्वयं न ददाति। यः ददाति च दापयति स मधुरं न वक्ति। परं अस्मिन् योगिवरे आचार्ये दानं दापनं मधुरा वाणी च वसन्ति। यः अन्येषु दर्लभः सः अस्मिन् वर्तते एवेति चित्रमिति आचार्यस्तवनम्।

यतोहि पद्यं सरलमेव किञ्चिदग्रे लेखितुमिच्छामि यन्मन्मनसि वर्तते। आचार्याः अशक्यकार्यमपि साधयामासुः, तेषामौदार्यं धृतिं च सर्वे प्रशशंसुः। केचनेदमपि ब्रूते यद् मठाधिपतिस्थानारोहणात् पश्चात् तस्य कीर्तिः सर्वासु दिक्षु प्रसृता इति। इदं सर्वं समीचिनमेव परमेकवारं चिन्तयामश्चेत् यदाचार्याः सन्न्यासाश्रमं स्वीचकार तदा द्रमिडे द्विजद्वेषः आसीत्। द्विजाः संस्कृतपठनं शिखां वेदाध्ययनं नित्यकर्माणि च उज्झामासुः। ये वेदविदः तेषां वृत्त्यर्थं किमपि नासीत्। तदर्थमाचार्याणां प्रयासः श्लाघनीयः, ते बहुधा उपादिशन् शिष्यान् सत्पथे आनेतुम्‌, विद्वद्भिः अतिशक्ति ददुः, अनेकेषां साहाय्यं चक्रुः।तेषां ८५-तमे वर्षे श्रीरङ्गराजगोपुरं निर्माणप्रयत्नः। अनेके आदरमपि न दत्तवन्तः। जरायां सर्वान् धनार्थं प्रार्थयामासुः गोपुरनिर्माणार्थम्। तस्मिन् समये तेषां पूर्वाश्रमपुत्रपौत्रदौहित्राः पञ्चत्वं गताः। एतत् सर्वं सोढ्वा भगवति निश्चञ्चलविश्वासेन जिजीवुः। नूनमिमे अवतारपुरुषाः एव, तेषु मम भक्तिः प्रवर्धमाना वर्तते। तेषां जीवनं तु लोके उदाहरणमित्युक्त्वा समाप्यते। इदं सर्वं पौनःपुन्येन विचिन्त्य अश्रुनयना अभूवम्।

वेदान्तदेशिकयतीन्द्रमहं प्रपद्ये।🙏🏻🙏🏻


Discover more from arabhati's arbhatyam :)

Subscribe to get the latest posts sent to your email.



Leave a comment

Discover more from arabhati's arbhatyam :)

Subscribe now to keep reading and get access to the full archive.

Continue reading