अस्मिन् लेखे भासस्य मध्यमव्यायोगात् किञ्चन पद्यमवलोकयाम यन्मम मनोहारि। व्यायोगः इति रुपकस्य दशभेदेषु अन्यतमः। नाटकम्, प्रकरणम्, डिमः, अङ्कः, प्रहसनम्, व्यायोगः, वीथी, ईहामृगः, भाणः, समवकारः इति रूपकस्य दश भेदाः । इमानि नामानि स्मर्तुं पद्यं वर्तते –
स्यान्नाटकं प्रकरणं भाणः प्रहसनं डिमः।
व्यायोगस्समवकारो विथ्थ्यङ्केहामृगा इति।।
व्यायोगस्य नियमाः सन्ति। तेषु मुख्यनियमाः प्रतिपाद्यन्तेऽत्र
१॰ प्रख्यातेतिवृत्तं एकैवाङ्के स्यात्।
२॰ स्वल्पस्त्रीपात्राणि भवन्तु
३॰ धीरोदात्त-प्रसिद्ध-नायको भवतु
४॰ हास्य-शृङ्गार-शान्त-रसा मा स्युः।
अयं व्यायोगो मध्यमस्य विषये। भीम एव मध्यम इति प्रख्यातो यतोहि स मध्यमपुत्र इति। महाभारते संवृतो वृत्तान्तोयं यत्र भीम-घटोत्कचयोः प्रथमवारसम्मेलनमधिकृत्य नाटकमिदं भासेन व्यरचि।
भीमः घटोत्कचं निजसुत इति विदित्वा “पुत्र” इति सम्बोधयति। तदा क्रुद्धः घटोत्कचो भीतग्रस्तानामायुधं गृहीतं भवतेत्युपहसति। अमुष्मिन् समये भीम एव निजपितेति घटोत्कचो न जानीते।
अत्र घटोत्कचस्याभिप्रायोस्ति यत् “पुत्र इति सम्बोद्ध्य विपद आत्मानं मोक्तुमिच्छति भीमः” इति।तदा भीमः कुतूहलेन भयमित्युक्ते किमिति अप्राक्षीत्।
शपामि सत्येन भयं न जाने
ज्ञातुं तदिच्छामि भवत्समीपे।
किं रूपमेतद् वद भद्र! तस्य
गुणागुणज्ञः सदृशं प्रपत्स्ये।।
अन्वयः – हे भद्र! सत्येन शपामि भयं न जाने। तद् भवत्समीपे ज्ञातुमिच्छामि। एतद् भयस्य किं रूपं वद। तस्य (भयस्य) गुणागुणज्ञः सदृशं प्रपत्स्ये।
अर्थः – हे पुत्र! अहं सत्यं वदामि भयं किमिति न जाने परन्तु तद् भयं किमिति ज्ञातुमिच्छामि। भवान् तु जानीते इति भासते अतः त्वत्तः जाने। तदनन्तरं भयस्य रूपं किमिति ज्ञात्वा तस्य गुणः कः दोषः कः इति ज्ञात्वा तदनु आचरामि।
एतेन भीमस्य वीर्यं शौर्यं पराक्रमश्च सुष्ठु ज्ञायते। पुरा अस्माकं भारतस्य राजानः ईदृशः शौर्यशालिनः इति ज्ञात्वा मनो मोदते। अमुष्य पद्यस्य पठनेन अस्माकं मनस्यपि धैर्यमुद्भवति। एतादृशी धृष्टता सर्वदा अस्मत्सविधे भवत्विति मे वाञ्छा।
अतः सर्वदा अस्मासु धैर्यलक्ष्मीः वर्तेतेत्यमुं सम्प्रार्थ्य वयमपि निर्भयाः भवेम।
अद्याङ्गलभाषयार्थः नोल्लिखितः। कदाचित् योज्यते।
शुभं भूयात्।


Leave a comment